________________
२२०
आचाराङ्ग सूत्रम् १/-/५/३/१६८
1
प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानंरूपापन्नेन यदकर्त्तव्यं पापकर्म्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थरूपेणात्मनान सावद्यानुष्ठानविधायी स्यादिति भावार्थः यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं यदेव च पापकर्म्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति सम्यग्ज्ञानं सम्यकत्वं वा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यकत्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनं - संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यकत्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यकत्वस्य चाभिव्यक्तिकारणत्वात् सम्यकत्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः ।
एतच्च न येन केनचिच्छक्यमनुष्ठातुमित्याह-नैतत्सम्यकत्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः ? - 'शिथिलैः' अल्पपरिणामतया मन्दवीर्यैः संयमतपसोर्धृति ढिमरहितैरिति, किं च- आर्गैः पुत्रकलत्राद्यनुषङ्गजनितस्नेहादाद्रक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणाःशब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च - वक्रः समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः तथा-विषयकषायादिप्रमादैः प्रमत्तैरिति किं च- अगारं गृहं तद् आद्यक्षरलोपाद्गारमित्युक्तं तदगारमा वसद्मिः सेवमानैः पापकर्म्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह
,
-
,
'मुनिः' जगत्रयस्य मन्ता मौनं मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्म्मशरीरं वेति । कथं च तद्धुननमित्याह-प्रान्तं पर्युषितं वल्लचनकाद्यल्प वा, तदपि रूक्षं विकृतेरभावात्, तत् 'सेवन्ते' तदभ्यवहरन्ति, के ते ? - 'वीराः ' कर्मविदारणसहिष्णवः, किंभूताः ? - सम्यकत्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-‘एषः’ अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौघः संसारस्तं तरतीति, कोऽसौ ? - मुनिः, वर्त्तमानसामीप्ये वा वर्त्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो ? - यः सावद्यानुष्ठानाद्विरत् इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ ब्रवीमिति पूर्ववत् ।
Jain Education International
अध्ययनं - ५ उद्देशक : ३ - समाप्तः : अध्ययनं -५ - उद्देशकः ४ :
बृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदर्श्य विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम्, अस्मिंश्च एकचरस्यामुनिभावे दोषोद्मावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्मू. (१६९) गामाणुगामं दूइजमाणस्स दुजाई दुप्परक्तं भवइ अवियत्तस्स भिक्खुणो वृ. ग्रसति बुद्धयादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य' अनेकार्थत्वाद्धातूनां विहरतः एकाकिनः साधोर्यत्स्यात् तद्दर्शयति- दुष्ट यातं दुर्यातं, गमनक्रियाया गर्हा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादर्हन्नकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजङ्घाच्छेदवत्, तथा दुष्टं पराक्रान्तम्- आक्रन्तं स्थानमेकाकिनो भवति, स्थूलभ
For Private & Personal Use Only
www.jainelibrary.org