SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०८ आचाराङ्गसूत्रम् १/-14/9/१५७ मू. (१५७) जे छेए से सागारियंन सेवइ, कटु एवमवियाणओ बिइया मंदस्स बालया, लद्धा हुरत्था पडिलेहाए आगमित्ता आणविज्जा अनासेवणय-त्ति बेमि। वृ. 'जेईए' इत्यादि यश्छेको-निपुणउपलब्धपुण्यपापः स 'सागारिय'तिमैथुनंन सेवते मनोवाक्कायकर्मभिः,सएवयथावस्थितसंसारवेदी, यस्तुपुनर्मोहनीयोदयात्पार्श्वस्थादिः तत्सेवते, सेवित्वाचसातगौरवमयाकिं कुर्यादित्याह-'कटु' इत्यादि,रहसिमैथुनप्रसङ्गंकृत्वापुनर्गु दिना पृष्टः सन्नपलपति, तस्यचैवमकार्यमपलपतोऽविज्ञापयतोवा किंस्यादित्याह-'बिइया' इत्यादि, 'मन्दस्य' अबुद्धिमत एकमकार्यासेवनमियं बालता-अज्ञानता, द्वितीया तदपह्नवनं मृषावादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति-“जे खलु विसए सेवई सेवित्ता वा नालोएइ, परेण वा पुट्ठो निन्हवइ, अहवा तं परंसएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्जत्ति" सुगमं । यद्येवं ततः किं कुर्यादित्याह-लद्धाहु' इत्यादि, लब्धानपिकामान् ‘हुरत्येत्तिबहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताबहिः कुर्यात्, यदिवा हुशब्दोऽपिशब्दार्थे, रेफागमः सुब्ब्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमों-लब्धानप्यर्थ्यन्ते-अभिलष्यन्त इत्यर्थाः-शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण- 'प्रत्युपेक्ष्य' पर्यालोच्य ततः 'आगम्य' ज्ञात्वा दुरन्तं शब्दादिविषयानुषङ्गं, कत्वाप्रत्य-यस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति-तदनासेवनतया परानाज्ञापयेत्, स्वतोऽपि परिहरेदिति, एतदहंब्रवीमियेनमयापूर्वार्थव्यावर्णनमकारिसएवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयस्वरूपोपलम्भात्समुपजनितजिनवचनसंमद इति। एतच्च वक्ष्यमाणं ब्रवीमिति मू. (१५८)पासह एगेरुवेसुगिद्धे परिनिज्जमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्थवि बाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्त्रमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरएबहुनडे बहुसढे बहुसंकप्पेआसवसत्तीपलिउच्छन्नेउट्ठियवायंपवयमाणे, मामे केइ अदक्खू अन्नायपमायदोसेणं, सययंमूढे धम्मंनाभिजाणइ, अट्टापया माणव! कंमकोविया जे अनुवरया अविजाए पलिमुक्खमाहु आवट्टमेव अनुपरियटुंति-तिबेमि॥ वृ. 'पासह इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधाणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु 'गृद्धान्' अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति।तेचविषयगृध्नवइन्द्रियवशगाः संसारार्णवे किमाप्नुयुरित्याह-“एत्थ फासे इत्यादि, अत्र' अस्मिन् संसारे हृषीकवशगःसन् कर्मपरिणतिरूपान् स्पर्शान पौनःपुन्येन-आवृत्त्या तानेवतेषु तेष्वेव स्थानेषु प्राप्नुयादिति। पाठान्तरं वा एत्य मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूत; स्यादित्यत आह-'आवंती'त्यादि, यावन्तः केचन ‘लोके गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तहुःखभाजिन इति दर्शयति-'एएसु'इत्यादि, एतेषु सावद्यारम्भप्रवृत्तेषु गृहस्थेषुशरीरयापनार्थं वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा 'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy