________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:१
२०९
तावद्गृहस्थस्तीर्थिको, वायोऽपिसंसारार्णवतटदेशमवाप्य सम्यकत्वरतंलब्ध्वाऽपिमोक्षककारणं विरतिपरिणामं सफलतामनीत्वा कर्मोदयात् सोऽपि सावधानुष्ठायी स्यादित्याह___“एथविबाले'इत्यादि, 'अत्र' अस्मिन्नप्यर्हप्रणीतसंयमाभ्युपगमे बालो' रागद्वेषाकुलितः परितप्यमानः परिपच्यमानोवाविषयपिपासयारमते, कैः?-पापैःकर्मभिः, विषयार्थसावद्यानुष्ठाने धृतिं विधत्ते, किं कुर्वाण इत्याह - ‘असरण'मित्यादि, कामाग्निनापापैर्वा कर्मभिः परिपच्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपावेदना अनुभवेदिति।।
आस्तां तावदन्ये, प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासास्तिांस्तान् कल्काचारानाचरन्तीतिदर्शयितुमाह-'इहमेगेसिमित्यादि, ‘इह' मनुष्यलोके एकेषां न सर्वेषां, चरणंचर्यतेवा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् प्रत्येकं द्विधा, तत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणं, भावतस्तु अप्रशस्तान विद्यते, साहिरागद्वेविरहाद्भवति, नचतद्रहितस्याप्रशस्ततेति।प्रशस्तातुद्रव्यतःप्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चैकाकिनः सङ्घादिकार्यानिमित्तान्निर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्मवति, तत्रद्रव्यतो भावतश्चैकचर्याअनुत्पन्नज्ञानानांतीर्थकृतांप्रतिपन्नसंयमानाम्, अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणं, तद्यथा
पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसध्शविग्रहः षष्ठभक्तेन तद्ग्रामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्राम गिरिगह्वरेऽष्टमभक्तेन तपःकर्मणाऽऽताप नां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते, सच तथा लोकेन पूज्यमानो वाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणो जनमूचे-मत्तोऽपि गिरिपरिसरातापी दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयः प्रोज्यमानस्तमेकाकिनंतापसमद्रिकुहरवासिनंपर्यपूजयद्, दुष्करंच परगुणोत्कीर्तनमितिकृत्वा तस्यापि सपर्यादिकंव्यधात्, तदेवमाभ्यांपूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराहनि. [२४६] चारो चरिया चरणं एगढ़ वंजणं तहिं छक्कं ।
दव्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ वृ.'चार' इति 'चरगतिभक्षणयोः' भावेघञ्, चर्येति 'गदमदचरयमश्चानुपसर्गे' इत्यनेन कर्मणि भावे वा यत्, चरणमिति, वा, भावे ल्युट्, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?'व्यञ्जनं' व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं-शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग निक्षेपः, 'तत्र' चारनिक्षेपेषट्, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथानामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनाध्त्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथाशकलेन दर्शयति-'दव्वं तु'त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्कमश्च जलस्थलचारश्च दारुसङ्कमजलस्थलचारौतावादीयस्यतद्दारुसङक्रमजलस्थलचारादिकं बहुधा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org