SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं - ५, उद्देशक:१ २०७ तदभिकाङ्क्षति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्तः- सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थं न जानाति, अतः परमार्थमविजानत् एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानंश्च यत्कुर्यात्तदाह-'कूराणि' इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि 'कर्माणि' अनुष्ठानानि हिंसानृतस्तेयादीनिसकललोकचमत्कृतिकारीणिअष्टादशवा पापस्थानानि 'बालः' अज्ञःप्रकर्षेण कुर्वाण, कभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैवतक्रियाफलविपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्याताऽऽकुलः, केन कृतेन ममैतद्दुःखमुपशमं या यादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति । किंच 'मोहेण'इत्यादि, मोहः' अज्ञानंमोहनीयंवा मिथ्यात्वकषायविषयाभिलाषमयंतेनमोहेन मोहितः सन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-“एत्थ;इत्यादि, 'अत्र' अस्मिन्ननन्तरोक्ते 'मोहे' मोहकार्ये गर्भमरणादिके पौनः पुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथंपुनः संसारेनबम्भ्रम्यात्?,तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्,असावेव कुतो?, विशिष्टज्ञानोत्पत्तेः?,सैव कुतो?,मोहाभावात्, यद्येवमितरेतराश्रयत्वं,तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च मू. (१५६) संसयं परिआणओ संसारे परिनाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ। वृ. 'संसय' मित्यादि संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तुसंशयेऽपिप्रवृत्तिर्भवत्येव, अर्थसंशयस्य प्रवृत्त्यङ्गत्वात्। अनर्थस्तु संसारः संसारकारणंच, तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात्' अतःसंशयमानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति तेन संशयंपरिजानतासंसारश्चतुर्गतिकः तदुपादानं वा मिथ्यात्वाविरत्यादिअनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहतमिति, यस्तुपुनः संशयं नजानीते स संसारमपि न जानातीति दर्शयितुमाह-'संसयं' इत्यादि, 'संशयं' सन्देहं द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्नस्यात्, तदप्रवृत्तौ चसंसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलोनिःसारो न ज्ञातो भवति ॥ कुतः पुनरेतन्निश्चीयते? यथा तेन संशयवेदिना संसारः परिज्ञात इति ?, किमत्र निश्चेतव्यं?, संसारपरिज्ञानकार्येविरत्युपलब्धे, तत्र सर्वविरतिप्रष्ठांविरतिं निर्दिदिक्षुराह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy