SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/१/१/१ [नि. ३९] विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयात् ज्ञानावरणीयोदयाच्च, क्रोध संज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोक-संज्ञा विप्रलापवैमनस्यरूपा, एता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा- न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवा, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भइत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच्च भवति, धर्म्मसंज्ञा क्षणाद्यासेवनरूपा मोहनीयक्षयोपशमाज्जायते, एताश्चाविशेषोपादानात्पञ्चेन्द्रियाणां सम्यग्मिथ्याध्शां द्रष्टव्याः, ओधसंज्ञा तु अव्यक्तोपयोगरूपा वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञानसंज्ञयाSधिकारी, यतः सूत्रे सैव निषिद्धा 'इह एकेषां नो संज्ञा ज्ञानम्-अवबोधो भवती 'ति । प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रम् - 'भू. (२) तंजहा- पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि, अनोयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं नो नायं भवति । वृ. “तंजहेत्यादि नो न्नायं भवतीति यावत्" तद्यथेति प्रतिज्ञातार्थोदाहरणं, 'पुरात्थिमाउ' त्ति प्राकृत शैल्या मागधदेशीभाषानुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरत्थिमशब्दात्पञ्चम्यन्तात्तसा निर्देशः, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा लोके भोक्तव्यं वा शयितव्यं वेति, एवं पूर्वस्या वा दक्षिणस्या वेति । देशतीति दिकू, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं वेति भावः ।। तां नियुक्तिकृन्निक्षेप्तुमाहनि. [४०] १८ नामं ठवणा दवि खित्ते तावे य पण्णवग भावे ॥ एस दिसानिक्खेवो सत्तविहो होइ नायव्वो ॥ वृ. नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः तत्र सचि त्तादेर्द्रव्यस्य दिगित्यभिधानं नामदिक, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् - द्रव्यदिग्निक्षेपार्थमाह नि. [४१] बृ. द्रव्यदिग् द्वेधा- आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्वियम्-त्रयोदशप्रदेशिकं द्रव्यामाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक्, न पुनर्द्दशप्रदेशिकं यत् कैश्चिदुक्तमिति, प्रदेशाः परमाण वस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्वगाढं जघन्यं द्रव्यमाश्रित्य दशदिग्विभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२) । त्रिबाहुकं नवप्रदेशिकमभिलिख्य चतसृषु दिक्ष्वेकैकगृहवृद्धिः कार्या ॥ क्षेत्रदिशमाह - नि. [ ४२ ] - Jain Education International तस्सपएसियं खलु तावइएसुं भवे पएसेसुं । जं दव्वं ओगाढं जहण्णयं तं दसदिसागं ।। अपएसो रुयगो तिरियं लोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ बृ. तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्व्वन्तद्व सर्व्वक्षुल्लकप्रतरी For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy