________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक : 9
त्येतत्पाठान्तरमाश्रित्यावगन्तमिति, 'भगवते 'ति भगः - ऐश्वर्य्यादिषडर्थात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव'मिति वक्ष्यमाणविधिना 'आख्यात' मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह,
'इहे' ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा 'इहे 'ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थ, पदविग्रहस्य तु सामासिकम्दाभावादप्रकटनम् । इदानीं चालना-ननु चाकारादिकप्रतिषेधकलधुराशब्दसंभवे सति किमर्थं नोशब्देन प्रतिषेधः इति ?, अत्र प्रत्यवस्था, सत्यमेव, किंतु प्रेक्षापूर्वकारतिया नोशब्दोपादानं, सा चेयम् अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यश्चन घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनाममिहितास्तसां सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः
१७
"कई णं भंते ! सण्णाओ पन्नत्ताओ ?, गोयमा दस सण्णाओं पन्नत्ताओ, तंजहा - आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसणा ओहसण्णा लोगसण्ण"त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि - नोघट इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्याक्ववोग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्,
11911
""प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः
स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद्”
इति, एवमिहापि न सर्वसंज्ञानिषेदः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति । साम्प्रतं निर्युक्तिकृत्सूत्रावयवनिक्षेपार्थमाहनि. [३८] दव्वे सच्चित्ताई भावेऽनुभवणजाणणा सण्णा ।
ति होइ जाणणा पुण अनुभवणा कम्मसंजुता
वृ. संज्ञा नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तेन हस्तादिद्रव्येण पानभोजनदिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञानं संज्ञा अवगम इतिकृत्वा, भावसंज्ञा पुनर्द्विधा - अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वात्तावत् ज्ञानसंज्ञा दर्शयति- 'मइ होइ जाणणा पुण' त्ति मननं मतिः-अवबोधः सा च मतिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च षोडशभेदेति दर्शयति
नि. [३९] आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा । कोह मान माय लोहे सोगे लोगे य धम्मोहे
वृ. आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकर्म्मोदयादसातोदयाच्च भवति, भयसंज्ञा त्रासरूपा, परिग्रहसंज्ञा मूर्छारूपा, मैथुनसंज्ञास्त्रयादिवेदोदयरूपा, एताश्च मोहनीयोदयात्, सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयोदयजे, मोहसंज्ञा मिथ्यादर्शन रूपा मोहोदयात्,
12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org