________________
श्रुतस्कन्धः-१, अध्ययनं-४,उद्देशकः३
१९७
तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्थगौरवभयात् प्रत्येकं नोच्यन्त इत्यत एकैकमेदावेदनं क्रियते
तकविंशतिः गतिः १ जातिः २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभगदुर्भगयोरन्यतरत् ७ आदेयानादेययोरन्यतरत् ८ यशःकीत्ययशःकीत्योरन्यतरत् ९, एताश्च नवध्रुवोदय १२ सहिताएकविंशतिः २१, चतुर्विंशतिस्तुतिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानं ८ उपघातं ५ प्रत्ये कसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत् ८ दुर्भगं९ अनादेयं १० अपर्याप्तकं ११ यशःकीत्ययशःकीत्योरन्यतर १२ दिति, तत्रैवापर्याप्तकापनयनेपर्याप्तकपराघाताभ्यांप्रक्षिप्ताभ्यांपञ्चविंशतिः२५, षड्विंशतिस्तु याऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाधसंहननोपघातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६, सैव तीर्थकरनामसहिता केवलिसमुद्घातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७, सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८, तत्र तीर्थकरनामापनयने उच्छ्वास १ सुस्वर २ पराघात ३ प्रक्षेपे सति त्रिंशद्भवति३०,तत्रसुस्वरेनिरुद्ध एकोनत्रिंशत् २९,सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत्
नवोदयस्तुमनुष्यगतिः १ पञ्चेन्द्रियजातिः२ त्रसं३बादरं४ पर्याप्तकं ५ सुभगं ६आदेयं ७यशःकीर्ति ८स्तीर्थकरमिति९, एताअयोगितीर्थकरकेवलिनः, एता एवतीर्थकरनामरहिता अष्टाविति ८, गोत्रस्यैकमेव सामान्येनोदयस्थानं, उच्चनीचयोरन्यतरद्, यौगपद्येनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति॥
यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह
मू. (१४८)इहआणाकंखी पंडिएअनिहे, एगमप्पाणं संपेहाए धुणेसरीरं, कसेहि अप्पाणं जरेहि अप्पाणं, - जहा जुनाई कट्ठाइं हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अनिहे, विगिंच कोहं अविकंपमाणे।
वृ. इह' अस्मिन्प्रवचने आज्ञामाकाङ्कितुंशीलमस्येतिआज्ञाकाङ्क्ष-सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भूतः स 'पण्डितो' विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्निहः, यदिवा स्निह्यतीति स्निहो-रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्तवाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकाङ्क्षीपण्डितो भावरिपुभिरनिहतो, नान्यत्र, यश्चनिहतः स परमार्थतः कर्मणः परिज्ञाता । यश्चैवम्भूतः स किं कुर्यादित्याह - 'एगमप्पाण' मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरकं, सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावैकत्वभावनैवं-रूपा भावयितव्येति॥१॥ “संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परोवा?।
सर्वेभ्रमन्तः स्वजनाः परेच, भवन्ति भूत्वा न भवन्ति भूयः॥ ॥२॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् ।
स्वकर्मभिन्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org