________________
१९६
. आचाराङ्ग सूत्रम् १/-1४/३/१४७ सकलप्राणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तोयच्छाआरीरमानसंदुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शन, इत्येतदनुभवसिद्धंदुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजुवश्च भवन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति
_ 'एव'मित्यादि, ‘एवं पूर्वोक्तप्रकारेण आहुः उक्तवन्तः, केएवमाहुः?-समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनोवा, यदुद्देशकादेराम्योक्तंतदेवमूचुरित्यर्थः, कस्मात्तऊचुरित्याह
'ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितुं शीलं येषांतेप्रावादिनः,तएवप्रावादिकाः-यथावस्थितार्थस्य प्रतिपादनायवावदूकाः, दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मणः कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः तेसर्वेऽपिज्ञपरिज्ञयापरिज्ञायहेयार्थस्यप्रत्याख्यानपरिज्ञामुदाहरन्ति, इतिः उपप्रदर्शन, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्माताविधानतः परिज्ञाय 'सर्वशः' सर्वैः' प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्माताकार्यभूतैरागामिबन्धसत्कर्माताकारणैश्च कर्मपरिज्ञायेति,तेचामी उदयप्रकाराः, तद्यथा
मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्मप्रकृतीयॊगपद्येन वेदयतोऽष्टविधं, तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितंसादिसपर्यवसितंचेति, मोहनीयोपशमेक्षयेवासप्तविधं, घातिक्षयेचतुर्विधमिति साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युज्यन्ते,तत्रज्ञानावरणीयान्तराययोः पञ्चप्रकारंएकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाचत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा-दशनव अष्टौ सप्त षट्पञ्चचत्वारिद्वे एकंचेति, तत्र दश मिथ्यात्वं अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सजवलनश्चेत्येतक्रोधचतुष्टयम् ५ एवं मानादि चतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयं ९ जुगुप्सा १० चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽथै
अनन्तानुबन्ध्यभावे सप्त मिथ्यात्वाभावे षट्, अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावेचत्वारि, परिवर्तमानयुगलाभावेसजवलनान्यतरवेदोदयेसतिद्वे, वेदभावे एकमिति, आयुषोऽप्येकमेवोदयस्थानंचतुर्णामायुषामन्यतरदिति, नाम्नोद्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड् विंशतिः सप्तविंशतिः अाविंशतिः एकोनत्रिंशत्रिंशत्एकत्रिंशत्नवअौचेति, तत्रसंसारस्थानांसयोगिनांजीवानांदशोदयस्थानानि नाम्नो भवन्ति, अयोगिनांतुचरमद्वयमिति, अत्र च द्वादशध्रुवोदयाः कर्मप्रकृतयः, तद्यथा
_तैजसकाम॑णे शरीरे २ वर्णगन्धसस्पर्शचतुष्टय ६ अगुरुलघु ७ स्थिरं ८ अस्थिरं ९ शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिरतीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा-मनुष्यगतिः १ पञ्चेन्द्रियजातिः२ त्रसं३ बादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशःकीर्तिरिति ८ध्रुवोदय १२ सहिता विंशतिः २०, एकविंशत्यादीनि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only