________________
१९५
श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकः२ नि. [२३३] एवं लग्गति दुम्मेहा, जे नरा कामलालसा ।
विरत्ता उन लग्गति, जहा से सुक्कगोलए। वृ.अयमत्रभावार्थः-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखंनपश्यन्तितदभावे तु पश्यन्ति ते कामगृघ्नु तया सार्द्राः, सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभान क्वचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः।
अध्ययनं-४ - उद्देशकः-२ समाप्त
-:अध्ययन-४-उद्देशकः-३:वृ. उक्तो द्वितीयोद्देशक;, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके परमतव्युदासद्वारेणसम्यक्त्वमविचलंप्रतिपादयतातत्सहचरितंज्ञानंतत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि ।
मू. (१४७) उवेहि णं बहिया य लोगं, से सव्वलोगंमि जे केइ विष्णू, अणुवीइ पास निक्खित्तंदंडा, जे केइ सत्ता पलियंचयंति, नरामुयच्चा धम्मविउत्तिअंजू, आरंभजंदुक्खमिणंति नच्चा, एवमाहुसंमत्तदसिणो, तेसव्वेपावाइयादुक्खस्सकुसला परिन्नमुदाहरंतिइय कम्मंपरिन्नाय सव्वसो।
वृ.योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनंधाद्वहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकंचमा कृथा इति । यः पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याह - ‘से सव्वलोए' इत्यादि, यः पाषण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीर्विद्वत्तमइति स्यात्, लोकेकेचनविद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह
'अणुवीइ' इत्यादि, ये केचन लोके 'निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्तय-पालोच्य पश्य-अवगच्छ।केचोपरतदण्डाइत्यत आह-'जेकेई' इत्यादि, ये केचनावगतधर्माणः सत्वाःप्राणिनः 'पलित'मिति कर्मतत्यजन्ति, येचोपरतदण्डा भूत्वाऽष्टप्रकारं कर्मघ्नन्ति ते विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य ‘पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह
'नरें' इत्यादि, नराः-मनुष्यास्तएवाशेषकर्मक्षयायालं नान्ये,तेऽपिनसर्वेअपितुमृता - मृतेव मृता संस्काराभावादा शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चातेजः, सचक्रोधः, सच कषायोपलक्षणार्थः, ततश्चायमर्थो-मृता-विनष्ट अर्चा कषायरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किं च - 'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यतएव धर्मविदोऽतएव ऋजवः-कौटिल्यरहिताः स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-'आरंभज'मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भजं, किंतद्? -दुःखमिदमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org