________________
१९४
आचाराङ्ग सूत्रम् १/-/४/२/१४६ [नि. २२७]
नि. [२२७] खुड्डग पायसमासं धम्मकहंपि य अजंपमाणेणं । छन्त्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥
वृ. अनया गाथया सङ्क्षेपतः सर्वं कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथा - पादसङ्क्षेपस्तमजल्पता धर्म्मकथांच 'छन्नेन' प्रकटेन अन्यलिङ्गिनः' प्रावादुकाः 'परीक्षिताः’निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम्चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चार्हद्-दर्शभावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽ स्थानस्थो धर्म्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच स च तूष्णीभावं भजमानो राज्ञोक्तः धर्म्मविचारं प्रति किमपि न ब्रूते भवान् ?,
स त्वाह- किमेभिः पक्षपातवचोभिः ?, विमर्शामः स्वत एव धर्म्म परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं नव 'त्ति, अयंगाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोघुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जुग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति - नि. [२२८] भिक्खं पविद्वेण मएज दिट्ठ, पमयामुहं कमलविसालनेत्तं । वक्खित्तचित्तेण न सुट्टु नायं, सकुंडलं वा वयणं न वत्ति ॥
वृ. सुगमं, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्त न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः । पुनस्तापसः पठति -
नि. [२२९] फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वक्खित्तचित्तेण न सुटु नायं, सकुंडलं वा वयणं न वत्ति ॥
वृ. सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह
नि. [२३० ] मालाविहारंमि मएऽज्ज दिट्ठा, उवासिया कंचणभूसियंगी । वक्खत्तचित्ते न सुटु नायं, सकुंडलं वा वयणं न वत्ति ॥
वृ. पूर्ववद्, एवमनया दिशा सर्वेऽपि तीर्थिका वाच्याः, आर्हतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वार्हतक्षुल्लकोऽप्येवम्भूतपरिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थं प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं गृहीत्वा गाथा बभाषे, तद्यथा - नि. [२३१] खंतस्स दंतस्स जिइंदियस्स, अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचिंतणं ?, सकुंडलं वा वयणं न वत्ति ॥
वृ. सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तंन पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्म्यं प्रति भावोल्लासोऽभूत्, क्षुल्लकेन च धर्म्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्केतरकर्द्दमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन् राज्ञोक्तं-किमिति भवान् धर्म्म पृष्टोऽपि न कथयति ? स चावोचत् - हे मुग्ध ! ननु कथित एव धर्म्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाह -
-
नि. [२३२]
Jain Education International
उल्लो सुक्को यदो छूढा, गोलया मट्टियामया । दोवि आवडिया कुड्डे, जो उल्लो तत्थ लग्गइ ॥
For Private & Personal Use Only
www.jainelibrary.org