________________
श्रुतस्कन्धः - १, अध्ययनं-४, उद्देशकः२
१९३ पमानागमार्थापत्त्यादिभिः प्रकारैः सुष्ठु प्रत्युप्रेक्षितं च - पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह -
सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्याअपद्रापयितव्याः, 'अत्रापि' धर्मचिन्तायामप्येवंजानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतयावाप्राणिहननादौ ‘दोषः' पापानुबन्ध इति, एवंयावन्तः केचन पाषण्डिका औद्देशिकभोजिनोब्राह्मणा वाधर्माविरुद्धंपरलोकविरुद्धंवा वादभाषन्ते।अयंचजीवोपमर्दकत्वात् पापानुबन्धीअनार्यप्रणीतइति, आहच-आराद्याताः सर्वहयधर्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याःक्रूरकर्माणस्तेषां प्राण्युपधातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह - 'तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुर्दृष्टमेतद्दुष्टं दृष्टं दुर्दृष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितमिति । तदेवं दुर्दष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह - _ 'जंण' मित्यादि,णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणंयूयमेवमाचध्वमित्यादियावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्र-प्राण्युपमर्दानुष्ठाने दोषः-पापानुबन्धइति, तदेवंपरवादे दोषाविर्भावनेन धर्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति - 'वय' मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथ । धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानिसप्रतिषेघानिहन्तव्यादीनियावन्न केवलमत्र-अस्मदीयेवचने नास्तिदोषोऽत्रापिअधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः-पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाचार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः
भवदीयमार्यवचनमस्मदीयंत्वनार्यमित्येतन्निरन्तराः सुहृदःप्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह - 'पुव्व' मित्यादि, 'पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत् 'निकाच्य' व्यवस्थाप्य पुनस्ताद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेवपरमतंप्रश्नयति,यदिवापूर्वप्राश्निकान्निकाच्यततः पाषण्डिकान्प्रश्नयितुमाह ____पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः! भवतः प्रश्नयिष्यामि, किं भे' युष्माकं सातं' मनआह्लादकारिदुःखमुतासातं मनःप्रतिकूलं?, एवंपृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततःप्रत्यक्षागमलोकबाधास्याद्, अथचासातमित्येवंब्रूयुः ततः ‘समिया' सम्यक्प्रतिपन्नांस्तान् प्रावादुकान्स्ववाग्यन्त्रितानप्येवंब्रूयात्-'अपिः' सम्भावने, सम्भाव्यतेएतद्भणनं-यथा न केवलं भवतांदुःखमसातं, सर्वेषामपिप्राणिनांदुःखमसातंमनसोऽनभिप्रेतम्अपरिनिर्वाणम्-अनिर्वृत्तिरूपं महद्भयंदुःखमित्येतत् परिगणय्य सर्वेऽपिप्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेनतीर्थिकपरीक्षाद्वारेणयथा निराकरणंचक्रे तथा नियुक्तिकारोगाथाभिराचष्टे [113
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org