________________
आचाराङ्ग सूत्रम् १/-/४/२/१४५ श्रुतकेवलिनोयद्वदन्ति तद्यथार्थभाषित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह
मू. (१४६) आवंति केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिट्ठ चणे सुयं च णे मयं च णे विण्णायं च णे उड्ढं अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णेसव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अज्जावेयव्वा परियावेयव्वा परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्थ दोसो अनारिवयणमेयं, तत्थ जे आरिआ ते एवं वयासी
१९२
सेदुद्दिनं च भे दुस्सुयं च भे दुम्मयं च भे दुव्विण्णायं च भे उडूढं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जं णं तुब्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पन्नवेह-सव्वे पाणा ४ हंतव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अनारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परूवेमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा ? न अज्जावेयव्वा २ न परिधित्तव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५,
इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया ! किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं बूयासव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं - तिबेमि ॥
वृ. 'आवन्ती 'ति यावन्तः 'के आवन्ती' ति केचन 'लोके' मनुष्यलोके 'श्रमणापाषण्डिकाः 'ब्राह्मणा' द्विजातयः पृथक्पृथगु विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि - भागवता ब्रुवते - “पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षण, निर्विशेषं सामान्यं तत्त्व' मिति, वैशेषिकास्तु भाषन्ते - “द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्व' मिति शाक्यास्तु वदन्ति- “यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे 'ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम् प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा ।
11911
प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥
इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्युह्यः । यदि वा ब्राह्मणाः श्रमणा धर्म्मविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति- 'से दिट्टं च णे' इत्यादि यावत् 'नत्थित्थ दोसो'त्ति, 'से'त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुवदिः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम् - अभिमतं युक्तियुक्तत्वादस्माकमस्म त्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः- प्रत्यक्षानुमानो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International