________________
श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक : २
१९१
मर्यादया संयमावधिभूतया निकेतभूताः - आश्रया वङ्कानिकेताः, वङ्को वा निकेतो येषां ते वङ्कानिकेताः, पूर्वपदस्य दीर्घत्वं, ये चैवम्भूतास्ते 'कालगृहीताः' कालेन-मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः अभिसन्धितः काल यैस्ते कालगृहीताः, आहिताग्निदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः,
तथाहि पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्मं करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टा-निचये कम्र्म्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः-अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माणः किमपरं कुर्वन्तीति दर्शयितुमाह-'पुढो पुढो' इत्यादि, पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशः 'प्रकल्पयन्ति' प्रकुर्वन्ति, पाठान्तरं वा 'एत्थ' मोहे पुणो पुणो' 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे कर्म्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् ॥
तदप्रच्युतौ च किं स्यादित्याह
मू. (१४५) इहमेगेसिं तत्थ तत्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिट्ठ कम्मेहिं कूरेहिं चिट्टं परिचिट्ठइ, अचिट्टं करूरेहिं कम्मेहिं नो चिट्टं परिचिट्इ, एगे वयंति अदुवावि नाणी नाणी वयंति अदुवावि एगे
वृ. 'इह' अस्मिंश्चतुर्द्दशरज्वात्मके लोके 'एकेषां' मिथ्यात्वाविरतिप्रमादकषायवतां 'तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचय भूयोभूयोगमनाद्मवति, ततः किमित्याह- 'अहोववाइए' इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीर्थिका अप्यौद्देशिकादि निर्दोषमाचक्षाणा ‘अधऔपपातिकान्’ नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहिलोकायतिका ब्रुवते
119 11
" पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् "
वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहिते भाषन्ते- 'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो क्षणदिग्नक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्य - योगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्म्मकार्येवानुभ- वति ?, न सर्व इति दर्शयति- 'चिट्ठ' इत्यादि, चिट्ठ-भृशमत्यर्थं 'क्रूरैः' वधबन्धादिभिः 'कर्म्मभिः ' क्रियाभिः 'चिट्ठ' मिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्गनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थं हिंसादिभिः कर्म्मभिर्वर्त्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते, स्यात्-क एवं वदतीत्याह
'एगे वयंती' त्यादि, 'एके' चतुर्द्दशपूर्वविदादयो 'वदन्ति' ब्रुवतेऽथवाऽपि ज्ञानी वदति, ज्ञानं-सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, सचैतद् ब्रवीति, यद्दिव्यज्ञानी केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते यच श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति- 'नाणी' इत्यादि, 'ज्ञानिनः' केवलिनो यद्वदन्त्यथवाऽप्येके
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org