________________
१९०
आचाराङ्ग सूत्रम् १/-/४/२/१४४
वृ. ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स 'आख्याति' आचष्टे 'इहे'ति प्रवचने केषां? -मानवानां, सर्वसंवरचारित्रार्हत्वात्तेषाम्, अथवोपलक्षणंचैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-'संसार' इत्यादि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापिये धर्म भोत्स्यन्ते ग्रहीष्यन्तेचमुनिसुव्रतस्वामिघोट-कदृष्टान्तेनतेषामेवाख्यातीत्येतद्दर्शयति- ‘सम्बुध्यमानानां' यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, छद्मस्थेन त्वज्ञातबुध्यमानेतर-विशेषेणयादग्भूतानांकथयितव्यं तान् सूत्रेणैव दर्शयति-'विज्ञानप्राप्तानां' हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानंतप्राप्ता विज्ञानप्राप्ताः,समस्तपर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः,
__नागार्जुनीयास्तु पठन्ति-“आघाइ धम्मं खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणंविण्णाणपत्ताणं" एतच्च प्रायोगतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयःआरम्भाभावः सविद्यते येषामितिमत्वर्थीयस्तेषामिति।यथाचज्ञानीधर्मामाचष्टेतथा दर्शयति_ 'अट्टावि' इत्यादि, विज्ञानां प्राप्ता धर्म कथ्यमानं कुतश्चिन्निमित्तादात् अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्तविषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे-यदिवाऽऽर्ताः-दुःखिनः प्रमत्ताः- सुखिनः, तेऽपि प्रतिपद्यन्तेधर्म, किं पुनरपरे ?,
अथवा आर्त्ताः- रागद्वेषोदयेन प्रमत्ता विषयैः, तेच तीर्थका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानांरागद्वेषविषयाभिलाषोन्मूलनायनप्रभवन्ति एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहा सच्च' मित्यादि, इदं यन्मया कथितं कथ्यमानंच तद्यथासत्यं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यकत्वंचारित्रपरिणाम वाप्रमादोन कार्यः, स्यात् किमालम्ब्य प्रमादोन कार्यस्तदाह- 'नाणागमो' इत्यादि,न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोऽस्तीति उक्तंच
“वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः।
प्रयत्नशतपरोऽपि विगतव्यथमा युरवाप्तवान्नरः ॥२॥ न खलु नरः सुरौघसिद्धासुरकिनरनायकोऽपि यः।
सोऽपिकृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति"
-तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तंच॥१॥ "नश्यति नौतियाति वितनोति करोति रसायनक्रियां,
चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं,
तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते" येपुनर्विषयकषायाभिष्वङ्गात्प्रमत्ताधर्मनावबुध्यन्तेते किम्भूता भवन्तीत्याह-'इच्छा' इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभि मुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवम्भूतास्ते 'वंकानिकेता' वङ्कस्य-असंयमस्य आ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org