SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ ॥३॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ (तथा) - एकः प्रकुरुते कर्म्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ इत्यादि, 'किं च- 'कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्म्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरीरकंजरीकुरु, तपसा तथा कुरु यथा जराजीर्णमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, किमर्थमित्येतदिति चेदाह - 'जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्खप्रमग्नाति शीघ्रं भस्मसात् करोति, दृष्टान्तं प्रदर्श्य दान्तिकमाह - 'एवं अत्तसमाहिए' 'एवम् अनन्तरोक्तदृष्टान्तप्रकरेणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा शुभव्यापारवानित्यर्थः, आहिताग्न्यादिदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, 'अस्निह;' स्नेहरहितः संस्तपोऽग्निना कर्म्मकाष्ठं दहतीति भावार्थः ॥ एतदेव ध्यन्तदार्शन्तिकगतमर्थ नियुक्तिकारो गाथयोपसञ्जिघृक्षुराह - नि. [२३४ ] जह खलु झुसिरं कट्टं सुचिरं सुक्कं लहुं डहइ अग्गी । तह खलु खवंति कम्मं सम्मञ्च्चरणे ठिया साहू ।। वृ. गतार्था । अत्र चास्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह - विगिंच कोह' मित्यादि, कारणेऽकारणे वाऽतिक्रूराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्यं कम्पनं तव्प्रतिषेधं दर्शयति- अविकम्पमानः ॥ किं विगणय्यैतत्कुर्यादित्याह - आचाराङ्ग सूत्रम् १/-/४/३/१४८ ॥४॥ मू. (१४९) इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइं च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहि अणियाणा ते वियाहिया, तम्हा अतिविज्जो नो पडिसंजलिज्जासि- त्तिबेमि ॥ - वृ. 'इदं' मनुष्यत्वं 'निरुद्धायुष्कं निरुद्धं परिगलितमायुष्कं 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात् किं च 'दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्म्मविपाकपादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह - 'पुढो' इत्यादि, पृथक् सप्त नरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु 'स्पर्शान्' दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणेदुःखमनुभवतीत्यागामीनि पृथगुदुःखानि च स्पृशेद्- अनुभवेत्, तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह - 'लोयं च' इत्यादि, न केवलं क्रोधादिविपाकदात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापनं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं 'पश्य' विवेकचक्षुषाऽवलोकय । ये त्येवं न ते किम्भूता भवन्तीत्यत आह- 'जे निव्वुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाग्न्युपशमान्निर्वृताः शीतीभूताः पापेषु कर्म्मसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy