SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशक: १८७ यथा भगवान् जगाद्, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षेणोच्यते प्रोच्यतेइति, नतुयथाअन्यत्र नहिंस्यात्सर्वभूतानी त्यभिधायान्यत्रवाक्येयज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ तदेवं सम्यकत्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तदर्शयितुमाह मू. (१४०) तं आइत्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिठेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणंचरे। वृ. 'तत्' तत्त्वार्थश्रद्धानलक्षणंसम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'ननिहे'ति नगोपयेत्, तथाविधसंसर्गा दिनिमित्तोत्थपितमिथ्यात्वोऽपिजीवसामर्थ्यगुणान त्यजेदपि, यथा वाशैवशाक्यादीनांगृहीत्वा व्रतानिपुनरपिव्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योप्रव्रजनं, एवं गुर्वादः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत्' न त्यजेत्, किं कृत्वा ? ___ यथा तथाऽवस्थितं धर्म ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तुनां वा धर्मस्वभावमवबुध्येति । तदवगमेतु किंचापरं कुर्यादत्याह-'दिटेहिं' इत्यादि, टैरिष्टानिष्टरूपैर्निर्वेद गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहिशब्दैःश्रुतैः रसैरास्वादितैर्गन्धैराघ्रातैः स्पर्शः स्पृष्टैः सद्भिरेवं भावयेत्यथाशुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषुरागो द्वेषोवेति। किंच-'नोलोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा–अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तां 'नचरेत् न विदध्यात्॥यस्य चैषा लोकैषणा नास्तितस्यान्याप्यप्रशस्ता मतिनास्तीतिदर्शयति मू. (१४१) जस्स नत्थि इमा जाई अण्णा तस्स कओ सिया?, दिलैंसुयं मयं विण्णायं जंएयंपरिकहिजइ, समेमाणा पलेमाणा पुणो पुणो जाइंपकप्पंति। वृ.यस्यमुमुक्षोरेषाज्ञातिः-लोकैषणाबुद्धिः 'नास्ति' नविद्यते, तस्यान्यासावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदमुक्तं भवति-भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नैव सावद्यानुष्ठान प्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा ‘इमा' अनन्तरोक्तत्वात् प्रत्यक्षा सम्यकत्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् ? । शिष्यमतिस्थैर्यार्थमाह "दिट्ठ'मित्यादि, यदेतन्मयापरिकथ्यतेतत्सर्वज्ञैः केवलज्ञानावलोकेनदृष्टं, ततःशुश्रूषुभिः श्रुतं,लघुकर्मणां भव्यानांमतं, ज्ञानावरणीयश्रयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यकत्वादिके मत्कथिते यलवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह-“समेमाणा' इत्यादि तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गायनात्यर्थमासेवां कुर्वन्तः तथा प्रलीयमानाः' मनोज्ञेन्द्रियार्थेषुपौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकांजातिंप्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः ॥यद्येवमविदितवेद्याः साम्प्रतक्षिणोयथाजन्मकृतरतयइन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्तव्यमित्याह मू. (१४२) अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिमिजासि-त्तिबेमि ।। वृ. अहश्च रात्रिं च यतमान एव यलवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः 'सदा सर्वकालम् आगतं' स्वीकृतं 'प्रज्ञानं' सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy