________________
१८६
आचाराङ्ग सूत्रम् १/-/४/१/१३९
च भूतानि चतुर्द्दशभूतग्रामान्तः पातीनि एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः- नारकतिर्यग्नरामरलक्षणाश्चतुर्गतिकाः, तथा सर्व एव स्वकृतसातासातोदयसुखदुःखभाजः सत्त्वाः, एकार्थावैते शब्दाः 'तत्त्वभेदपर्यायैः प्रतिपादन' मितिकृत्वेति, एते च सर्वेऽपि प्राणिनपर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतो न परिग्राह्या मृत्यदासदास्यादिममत्वपरिग्रहतो न परितापयितव्याः शारीरमानसपीडोत्पादनतो नापद्रावयितव्याः प्राणव्यपरोपणतः 'एषः' अनन्तरोक्तो 'धर्म्मो' दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं दर्शयति
'शुद्धः' पापानुबन्धरहितः न शाक्यधिग्जातीनामिवैकेन्द्रियपञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः, तथा 'नित्यः' अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा 'शाश्वतः ' शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च 'लोकं ' जन्तुलोकं दुःखसागरावगाढं ‘समेत्य' ज्ञात्वा तदुत्तरणाय 'खेदज्ञैः' जन्तुदुःखपरिच्छेत्तृभिः 'प्रवेदितः' प्रतिपादित इति एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थं बभाषे ।।
एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयतिनि. [२२६] जे जिनवरा अईया जे संपइ जे अनागए काले ।
सव्वेवि ते अहिंसं वदिंसु वदिहिंति विवदिंति ॥
नि. [२२७] छप्पिय जीवनिकाए नोवि हणे नोऽवि अ हणाविज्जा । विअ अणुमनिज्जा सम्मत्तस्सेस निजुत्ती ॥
वृ. तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्त्तते (तत्) तद्यथेत्यादिना दर्शयति- 'तंजहा - उट्ठिएस वा' इत्यादि, धर्म्मचरणायोद्यता उत्थिता - ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्म्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुत्थितेषु द्रव्यतो निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेषूत्थितेष्वेव वीरवर्द्धमानस्वामिना धर्म्मः प्रवेदितः, तत उपस्थिता धर्म्म शुश्रूषवो जिधृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्म्मणि द्वीपीनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपु त्रादिष्विव धर्म्मकथा युक्तिमती अनुपस्थितेषु तु कं गुणं पुष्णाति ?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्म्मपरिणतेः क्षयोपशमापादनाद्गुणवत्येवेति यत्किञ्चिदेतत्, प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति,
उपधीयते - सङ्ग ह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतो माया, सह उपधिना वर्तन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः - सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्वति, तेवमुभयरूपेष्वपि यद्भगवता धर्म्मदेशनाऽकारितत् 'तथ्यं' सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं, यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसौ भवतीत्यतो वाच्यमपि तथैवेति दर्शयति - तथा चैतद्वस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org