________________
श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशक : १
-
१८५
तत्त्वार्थश्रद्धानं, तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानैस्तीर्थकृमिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति
-: अध्ययनं-४ - उद्देशकः १ :
मू. (१३९) से बेमि जे अईया जे य पडुपन्ना आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइक्खन्ति एवं भासंति एवं पन्नविंति एवं परूविंति - सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिधित्तव्वा न परिवेयव्वा न उद्दवेयव्वा,
एस धम्मे सुद्धे निइए समिच्च लोयं खेयण्णेहिं पवेइए, तंजहा - उट्ठिएस वा अनुट्ठिएसु वा उवट्ठिएसु वा अनुवट्ठिएसु वा उवरयदंडेसु वा अनवरयदंडेसु वा सोवहिएसु वा अणोवहिएसुवा संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्ति चेयं पवुच्चइ ॥
वृ. गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धैयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यकत्वं भवति तदहं तत्वं ब्रवीमीति, येऽतीताः - अतिक्रान्ता ये च प्रत्युत्पन्नाः- वर्त्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति, वर्त्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं तच्चैवं पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पञ्चैवमैरावतेष्वपीति, तत्र द्वात्रिशंत्पञ्चभिर्गुणिताः षष्टयुत्तरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते - मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः“सत्तरसयमुक्कोसं इअरे दस समयखेत्तजिणमाणं ।
119 11
चोत्तीस पढमदीवे अनंतरऽद्धे य ते दुगुणा "
के इमे ? - 'अर्हन्तो' अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते, वर्त्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवानवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्शयति
यथा 'सर्वे प्राणाः' सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International