________________
१८४
आचाराङ्ग सूत्रम् १/-/४/-/- [नि. २२३]
नि. [२२३] सम्मत्तुपत्ती सावए यविरए अनंतकम्मसे।
दसणमोहक्खवए उवसामन्ते य उवसंते। नि. [२२४] खवए य खीणमोहे जिणे असेढी भवे असंखिज्जा ।
तविवरीओ कालो संखिज्जगुणाइ सेढीए । वृ.सम्यक्त्वस्योत्पत्तिः सम्यकत्वोत्पत्तिस्तस्यां विवक्षितायामसङ्घयेयगुणा श्रेणिर्भवेदित्युत्तरगाथान्तेि क्रियामपेक्ष्य सम्बन्धो लगयितव्यः, कथमसङ्खयेयगुणा श्रेणिर्भवेदिति ?, अत्रोच्यते,इह मिथ्यादृष्टयोदेशोनकोटीकोटिकर्मास्थितिका ग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्योऽसङ्घयेयगुणनिर्जरकाः, ततोऽपिपिपृच्छिषुः सन्साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन्, ततोऽपि धर्म प्रतिपित्सुः, अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नोऽसङ्खयेयगुणनिर्जरक इति सम्यकत्वोत्पत्तिव्याख्याता, तदनन्तरं विरताविरतिं प्रतिरित्सुप्रतिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्यासङ्खयेयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्नसर्वविरतेः सकाशात्।
'अनंतकम्मंसे'त्ति ‘पदैकदेशे पदप्रयोग' इति यथा भीमसेनो भीमः सत्यभामाभामा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः-भागाः- तांश्चिक्षपयिषुरसङ्खयेयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुखक्रियारूढापवर्गत्रयमायोज्यं, ततोऽपि क्षीणसप्तकाक्षीणसप्तक एवोपशमश्रेण्यारूढोऽसङ्ख्येयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि सप्तक एवोपशमश्रेण्यारूढोऽसङ्खयेयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि 'जिनो' भवस्थकेवली, तस्मादपि शैलेश्यवस्थोऽसङ्घयेयगुणनिर्जरकः।
तदेवं कर्मनिर्जरायै असङ्खयेयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङ्ख्येयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपत्तेरिति, कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सङ्खयेयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवतियावत्कालेन यावत्कर्मायोगिकेवलीक्षपयति तावन्मात्र कर्म सयोगिकेवली सङ्खयेयगुणेन कालेन क्षपयति एवं प्रतिलोमतयायावद्धर्मं पिपृच्छिषुस्तावन्नेयमिति गाथाद्वयार्थः॥एवमनन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कथासावुपाधिस्तमाहनि. [२२५] आहारउवहिपूआ इड्ढीसुय गारवेसुकइतवियं ।
एमेव बारसविहे तवंमि न हु कइतवे समणो॥ वृ.आहारश्च उपधिश्च पूजा च ऋद्धिश्च-आमर्पोषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासुज्ञानचरणक्रियांकरोति, तथागारवेषु त्रिषुप्रतिबद्धोयत्करोति तत्कृत्रिममित्युच्यते, यथा चज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमंसन्न फलवद्मवति एवंसबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org