________________
१८३
श्रुतस्कन्धः - १, अध्ययनं-४, उपोद्घातः
उपशमश्रेण्यां चौपशमिकमिति २, तथा सम्यकत्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३, चारित्रमप्युपशमश्रेण्यामौपशमिकं १ कषायक्षयोपशमात् क्षायोपशमिकंचारित्रं २ चारित्रमोहनीयक्षयात्क्षायिकं ३,
ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यं, तद्यथा-क्षायोपशमिकं क्षायिकं च, तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिक केवलज्ञानमिति। तदेवं त्रिविधे।ऽपि भावसम्यकत्वे दर्शिते सति परश्चोदयति-यद्येवंत्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यकत्वादो रूढो ? यदिहाध्ययने व्यावय॑ते, उच्यते, तद्भावभावित्वादितरयोः, तथाहि-मिथ्याटेस्ते न स्तः, अत्र च सम्यकत्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बालाङ्गनाधवबोधार्थं दृष्टान्तमाचक्षते-तद्यथा
__उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयं, तत्र वीरसेनोऽन्धः, स च तत्प्रायोग्या गान्धवादिकाः कला ग्राहितः, इतरस्त्वभ्यस्तधनुर्वेदो लोकश्लाध्या पदवीमगमत्, एतच्च समाकर्ण्य वीरसेने नापि राजा विज्ञप्तोयथाऽहमपिधनुर्वेदाभ्यासंविदधे, राज्ञाऽपितदाग्रहमवगम्यानुज्ञातः, ततोऽसौसम्यगुपाध्यायोपदेशात्प्रज्ञातिशयादभ्यासविशेषाच्चशब्दवेधी सञ्जज्ञे, तेनचारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुर्दर्शनसदसद्मावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजायुद्धायादेशंयाचितः, तेनापियाच्यमानेन वितेरे, वीरसेनेनच शब्दानुवेधितयापरानीके जजृम्भे, परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासौ जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छय निशितशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्तुमाहनि. [२२०] कुणमाणोऽवि य किरियं परिच्चयंतोवि सयणधनभोए।
दितोऽविदुहस्स उरं न जिणइ अंधो पराणीयं ।।। वृ. कुर्वन्नपि क्रियां परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः ।। तदेवं दृष्टान्तमुपदश्य दार्शन्तिकमाहनि. [२२१] कुणमाणोऽवि निवित्तिं परिचयंतोऽवि सयणधणभोए।
दितोऽविदुहस्स उरं मिच्छद्दिट्ठी न सिज्झइ उ ॥ वृ. कुर्वन्नपि निवृत्तिम् अन्यदर्शनाभिहितां, तद्यथा-पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपिस्वजनधनभोगान्पञ्चाग्नितपआदिना दददपिदुःखस्योरः मिथ्याष्टिनसिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये । यत एवं ततः किं कर्त्तव्यमित्याह. नि. [२२२] तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा ।
सणवओ हि स फलाणि हुंति तवनाणचरणाई॥ वृ. यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्, तस्मात्कारणात्कानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्मवति तद्दर्शयति-दर्शनवतो हि 'हिः' हेतौ यस्मात्सम्यगदर्शनिनःसफलानि भवन्तितपोज्ञानचरणान्यतस्तत्र यलवताभाव्यमिति गाथार्थः।।प्रकारान्तरेणापिसम्यग्दर्शनस्य तत्पूर्वकाणांचगुणस्थानकानांगुणमाविर्भावयितुमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org