SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/४/-/- [नि. २१६] वृ. प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग् - अविपरीतो वादः सम्यग्वादोयथावस्थितवस्त्वाविर्भावनं, द्वितीये तु धर्म्मप्रवादिकपरीक्षा, धर्म्यं प्रवदितुं शीलं येषां ते धर्म्मप्रवादिनस्त एव धर्म्मप्रवादिकाः, धर्म्मप्रावादुका इत्यर्थस्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा - अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु 'समासवचनेन' सङ्क्षेपवचनेन 'नियमनं भणितं ' संयत उक्त इति । तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तं, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दों हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं' तत्प्रतिपालनाय यावज्जीवं यत्नो विधेय इति गाथाद्वयार्थः ॥ अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यकत्वाभिधानस्य निक्षेपं चिकीर्षुराहनि. [२१७] नामंठवणासम्मं दव्वसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउव्विहो होइ ॥ वृ. अक्षरार्थः सुगमः, भावार्थं तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं निर्युक्तिकारः प्रतिपिपादयिषुराह १८२ नि. [२१८] अह दव्वसम्म इच्छानुलोमियं तेसु तेसु दव्वेसुं । कयसंखयसंजुत्तो पत्त जढ भिन्न छिन्नं वा ॥ वृ. ‘अथे’त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरितं द्रव्यसम्यकत्वमित्याह, 'ऐच्छानुलोमिकं' इच्छा - चेतः प्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षु द्रव्येषु कृताद्युपाधिभेदेन सप्तधा भवति, तद्यथा कृतम् - अपूर्वमेव निर्विर्त्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक्कर्तुस्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेर्भग्नजीर्णापोढापरावयसंस्कारादिति २, तथा ययोर्द्रव्ययोः संयोगोगुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयः शर्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यठायुक्तं द्रव्य लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् ४, पाठान्तरं वा- 'उवउत्त'त्ति यदुपयुक्तम्- अभ्यवहृतं द्रव्यं मनः समाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा जढंपरित्यक्तं यद्भारादि तत्त्यक्तद्रव्यसम्क् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेर्भिन्नद्रव्यसम्यक् ६, तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक् ७, सर्वमप्येतत्समाधानकारणत्वाद्रव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः ॥ भावसम्यक्प्रतिपादनायाह - · नि. [२१९] तिविहं तुं भावसम्मं दंसणं नाणे तहा चरिते य । दंसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥ वृ. त्रिविधं भावसम्यक् - दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शनचरणे प्रत्येकं त्रिविधे, तद्यथा अनादिमिध्याध्ष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्म्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थेर्मिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यकत्वमुत्पादयत औपशमिकं दर्शनम् १, उक्तं च“ऊसरदेसं दड्ढेल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छत्तानुदए उवसमसम्मं लहइ जीवो' 119 11 ?? For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy