________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः ३
१८१
वृ. यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्यातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदर्शीति, सुगमत्वान्न विव्रियते । साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह - 'से' इत्यादि, स मेधावी 'अभिनिवर्त्तयेद्' व्यावर्त्तयेत्, किं तत् ? - 'क्रोधमित्यादि यावद्दुःखं', सुगमत्वाद्वयाख्यानाभावः, स्वमनीषिकापरिहारार्थमाह- 'एय' मित्यादि, 'एतद्' अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य-तीर्थकृतो दर्शनम् - अभिप्रायः, किम्भूतस्य ? - उपरतशस्त्रय पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ ? - ' आयाण' मित्यादि, आदानं कर्म्मोपादानं निषेध्य पूर्वस्वकृतकर्म्मभिदसाविति किं चास्य भवतीत्याह - 'किमत्थी' त्यादि, 'पश्यकस्य'; केवलिनः ।
'उपाधिः' विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म्म, सद्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ?, नास्तीति एतदहं ब्रवीमि सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपास (य) ता सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति अध्ययनं-३, उद्देशकः-४ समाप्तः
वृ. गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ॥ तत्समाप्तौ चातीतानागतनयविचारातिदेशात् ।
अध्ययनं -३ - समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धे द्वितीय अध्ययन टीकापरिसमाप्ता
अध्ययनं ४ - सम्यकत्व
वृ. उक्तं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः - इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां षड्जीवनिकायान् व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितं, तद्वधे च बन्धं विरतिं च भणताऽऽ स्रवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथा च मुच्यत इति वदता बन्धनिर्जर गदिते, शीतोष्णीयाध्ययने तु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थत्मकं तत्त्वमभिहितं तत्त्वार्थश्रद्धानं च सम्यकत्वमुच्यते, तदधुना प्रतिपाद्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्योपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यकत्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्देशकार्थाधिकारप्रतिपादनाय तुनिर्युक्तिकार आहनि. [२१५] पढमे सम्मावाओ बीए धम्मप्पवाइयपरिक्खा । तइए अणवज्जतवो न हु बालतवेण मुक्खुत्ति ।। नि. [२१६ ] उद्देसंमि चउत्थे समासवयणेण नियमनं भणियं । तम्हा य नाणदंसणतवचरणे होइ जइयव्वं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org