________________
१८८
आचाराङ्ग सूत्रम् 9/-/४/१/१४२
परतीथिकान्वाधर्माद्दहिय॑स्थितान्पश्य, तांश्चतथा भूतान्दृष्ट्वा किं कुर्यादित्याह-'अप्पमत्ते' इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपिसदोपयुक्तः पराक्रमेथाः कमरिपून् मोक्षाध्वनि वा । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् ।
अध्ययनं-४- उद्देशकः १ -समाप्तः
अध्ययनं-४-उद्देशकः२:वृ. उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोद्देशकेसम्यग्वादःप्रतिपादितः,सचप्रत्यनीकमिथ्यावादव्युदासेनात्मलाभलभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायइदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रं-'जेआसवा' इत्यादि, यदिवेह सम्यकत्वमधिकृतं,तच्चसप्तपदार्थश्रद्धानात्मकं, तत्रमुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेनसंसारमोक्षकारणेनिर्णेतव्ये,तत्रसंसारकारणमानवस्तद्गहणाच्च बन्धग्रहणं, मोक्षकारणंतुनिर्जरा तद्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जर संसारमोक्षकारणभूते सम्यकत्वविचारायाते दर्शयितुमाह
मू. (१४३)जे आसवातेपरिस्सवाजे परिस्सवातेआसवा, जे अणासवाते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिच्चा पुढो पवेइयं ।
वृ. 'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आम्रवाः, परिःसमन्तात्वति-गलति यैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवानवाः-कर्मबन्धस्थानानि त एव परिवानः-कर्मनिर्जरास्पदानि, इदमुक्तं भवति-यानि इतरजनाचरितानि सगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादानवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिवाम्रः-निर्जरास्थानानि । सर्ववस्तूना मनैकान्तिकतां दर्शयितुमेतदेव विपर्ययेणाह
'जे परिस्सवा' इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि-अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि, तान्येव कर्ममोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातद्धिरसागरवप्रवणस्यानवा भवन्तिपापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्बन्धनायासंयमस्थानन्यपि तावन्त्येव, उक्तंच॥१॥ “यथाप्रकारा यावन्तः, संसारावेशहेतवः ।
तावन्तस्तद्विपर्यासानिर्वाणसुखहेतवः" ___ तथाहि-रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वाप्तिवदिति, सम्यग्दृष्टेस्तु विदितसंसारोदन्वतः न्यक्क तविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सजातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः। पुनरेतदेवगतप्रत्यागतसूत्रसप्रतिषेधमाह-'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, अनावेभ्योऽन्येऽनानवाः-व्रतविशेषाः, तेऽपिकर्मोदयातशुभाध्यवसायिनोऽपरिवानः कर्मणः, कोकणार्यप्रभृतीनामिवेति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org