SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -१, अध्ययनं-३, उद्देशकः-४ १७९ 'जेएग' मित्यादि, यो हिप्रवर्द्धमानशुभाध्यवसायधिरूढकण्डकःएकम्-अनन्तानुबन्धिनं क्रोधं 'नामयति' क्षपयति स बहूनपि मानादीनामयति क्षपयति अप्रत्याख्यानादीन् वा स्वभेदान्नामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृती मयति, यो वा बहून् स्थितिशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं वा, तथाहि-एकोन- सप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिः ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिः नामगोत्रयोरेकोनविंशतिभिःशेषकोटीकोट्याऽपि देशोनयामोहनीयक्षपणा) भवति, नान्य इत्यतोऽपदिश्यतेयो बहुनामः स एव परमार्थत एकनाम इति, नाम इति क्षपकोऽभिधीयते उपशामकोवा, उपशमश्रेण्याश्रयेणैकबहूपशमता बढेकोपशमता वावाच्येति, तदेवं बढेककाभावमन्तरेण मोहनीयक्षयस्योपशमस्य वाऽभावः, तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति- 'दुक्ख' मित्यादि, 'दुःखम्' असातोदयस्तत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्यज्ञपरिज्ञया ज्ञात्वाप्रत्याख्यानपरिज्ञयाचयथातदभावोभवतितथाविदध्यात्, कथं तदभावः? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह-'वंता' इत्यादि, 'वान्त्वा' त्यक्त्वा लोकस्य-आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः 'संयोग' ममत्वपूर्वकं सम्बन्धं शारीरदुःखादिहेतुतःतुकर्मोपादानकारणंवा यान्ति' गच्छन्ति धीराः" कर्मविदारणसहिष्णावः यान्त्यनेनमोक्षमितियानंचारित्रंतच्चानेकभवकोटिदुर्लभं लब्धमपिप्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच्च तद्यानं च महायानं, यदिवा महद्यान-सम्यग्दर्शनादित्रयं यस्य स महायानो-मोक्षस्तं यान्तीति सम्बन्धः । स्यात्-किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण?, उभयथाऽपि ब्रूमः, तद्यथा अवाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैवभवेन मुक्त्यवाप्तिरपरस्यत्वन्यथेति दर्शयतिपरेण पर' मित्यादि, सम्यकत्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, पुनरपिततश्चयतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण - संयमेनोद्दिष्टविधिना 'परं' स्वर्गं पारम्पर्येणापवर्गमपि यान्ति, यदिवा 'परेण' सम्यग्दृष्टिगुणस्थानेन ‘परं' देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः परं दर्शनमोहनीयचारित्रमोहनीयक्षयंघातिभवोपग्राहिकर्मणांवाक्षयमवाप्नुवन्ति, एवंविधाश्च कर्मक्षपणोद्यताजीवितंकियद्गतंकिंवाशेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति, यदिवापरेण परंयान्तीत्युत्तरोत्तरां तेजोलेश्याभवाप्नुवन्तीति, उक्तं च___"जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति ?, गोयमा! मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणंतेयलेस्सं वीइवयइ, एवंदुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणंचउमासपरियाए गहगणनक्खत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरिआए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy