________________
आचाराङ्ग सूत्रम् १/-/३/४/१३४ तदुपदेशवर्त्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशेषणमाह
१७८
'पलियंतकरस्स' पर्यन्तं कर्म्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्मकर्म्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह- 'आयाण' मित्यादि, आदीयते गृह्यते आत्माप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं कर्म्म येन तदादानं-हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तत्स्थितेर्निमित्तत्वात्कषाया वाऽऽदानं तद्वमिता स्वकृतमिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म्म भिनत्तीति स्वकृतभित्, यो ह्यादानं कर्म्मणां कषायादि निरुणद्धि सोऽपूर्वकर्म्मप्रतिषिद्धप्रवेशः स्वकृतकर्म्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि परकृतकर्म्मक्षपणोपायाभावात् स्वकृतग्रहणं, तीर्थकरेणापि परकृतकर्म्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्था-नात्॥ ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ न सर्वज्ञ इति सङ्गिरामहे, एतावतैव परोपकारकर्तृत्वेन तीर्थकरत्वोपपत्तेः, तदेतन्न सत्तां मनांस्यानन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह
मू. (१३५) जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ।
वृ. 'यः' कश्चिदविशेषितः 'एक' परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्वं स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वाद्, इदमेव हेतुहेतुमद्भावेन लगयितुमाह- 'जे सव्व' मित्यादि, यः सर्वं संसारोदरविवरवर्त्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्"एगतदवियस्स जे अत्थपज्जवा चयणपज्जवा वावि । तीयाणागयभूया तावइयं तं हवइ दव्वं "
तदेवं सर्वज्ञस्तीर्थकृत्, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयतिमू. (१३६) सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहु नामे, जे बहुनामे से एगं नामे, दुक्खं लोगस्स जाणित्तावंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकंखंति जीवियं ।
119 11
बृ. सर्वतः सर्वप्रकारेण द्रव्यादिना यद्भयकारि कम्र्म्मोपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो ‘भयं' भीतिः, तद्यथा प्रमत्तो हि कर्म्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशैः क्षेत्रतः षदिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, यदिवा 'सर्वत्र' सर्वतो भयमिहामुत्र च, एतद्विपरीतस्य च नास्ति भयमिति, आहच- 'सव्वओ' इत्यादि, 'सर्वतः ' ऐहिकामुष्मिकापायाद् ‘अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्म्मणो वा, अप्रमत्तता च कषायाभावद्भवति, तदभावाच्चशेषमोहनीयाभावः, ततोऽप्यशेषकर्म्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः, एकाभावोऽपि बहूवभावानान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org