SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ आचाराङ्ग सूत्रम् १/-/३/३/१२८ ॥१॥ “केण ममेत्थुप्पत्ती कहं इओ तह पुणोऽविगंतव्वं ? । जो एत्तियंपि चिंतइ इत्थं सो को न निविण्णो?" एके पुनर्महामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्य यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतंतदेवागमिष्यम्-आगामीति, यदिवा न विद्यतेपरः-प्रधानोऽस्मादित्यपरःसंयमस्तेन वासितचित्ताः सन्तः पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि ‘नस्मरन्ति' न तदनुस्मृति कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति, किं च-अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तुभाषन्ते-एकेरागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वायदस्यजन्तोरनादिनिधनत्वात् कालशरीरसुखाद्यतीतमागामिन्यपितदेवेति, अपरे तु पठन्ति॥१॥ “अवरेण पुव्वं किह से अतीतं, किह आगमिस्सं न सरंति एसे । भासन्ति एगे इह माणवाओ, जह स अईअंतह आगमिस्सं" अपरेण-जन्मादिना सार्धं पूर्वम्-अतिक्रान्तं जन्मादि न स्मरन्ति, 'कथनं वा' केन वा प्रकारेणातीतंसुखदुःखादि, कथं चैष्यमित्येतदपि नस्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बद्धयमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्त - मागाम्यपितत्प्रकारमेवेति, यदिवाप्रमादविषयकषायादिनाकाण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतदर्शयितुमाहमू. (१२९) नाईयमटुं न य आगमिस्सं, अटुं नियच्छन्ति तहागया उ । विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी॥ ७. 'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गतं-गमनं येषां ते तथागताः-सिद्धाः, यदिवा यथैवज्ञेयंतथैव गतं-ज्ञानंयेषांतेतथागताः-सर्वज्ञाः, तेतुनातीतमर्थमनागतरूपतयैव नियच्छन्तिअवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात्परिणतेः, पुनरर्थग्रहणंपर्यायरूपार्थं, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थं विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति वा, के?, तथागताः-रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह__“विहूय कप्पे' इत्यादि, विविधम्-अनेकधाधूतम्-अपनीतमष्टप्रकारकर्मयेन स विधूतः, कोऽसौ ? कल्पः-आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह-'निज्झेस' इत्यादि, पूर्वोपचितकर्मणां निज्झोषयिता-क्षपकः क्षपयिष्यति वा तृजन्तमेतल्लुङन्तं वा । कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति मू.(१३०) का अरई के आनंदे ?, इत्थंपि अग्गहे चरे, सव्वंहासं परिचज आलीनगुत्तो परिव्वए, पुरिसा!-तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy