________________
श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशक:३
१७३
इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः सदा' सर्वकालंयात्रा-संयमयात्रातस्यांमात्रायात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तंच॥१॥ "आहारार्थं कर्म कुर्यादनिन्छ, स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात्"
-सैवात्मगुप्तता कथं स्यादिति चेदाहमू. (१२७) विरागं स्वेहिंगच्छिज्जा महया खुडएहि य, | आगइंगइंपरिण्णाय दोहिवि अंतेहिं अस्समाणेहिं से न छिज्जइ न भिजइ न डज्झइ न हमइ कंचणं सव्वलोए
वृ. 'विराग'मित्यादि, विरञ्जनं विरागस्तं विरागंरूपेषुमनोज्ञेषुचक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, रूपमतीवाऽऽक्षेपकारीअतोरूपग्रहणम्, अन्यथाशेषविषयेष्वपि विरागंगच्छेदित्युक्तं स्यात्, महता-दिव्यभावेन यद्वयवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति॥१॥ “विसयंमि पंचगंमीवि, दुविहंमि तियं तियं ।
भावओ सुठु जाणित्ता, से न लिप्पइ दोसुवि" शब्दादिविषयपञ्चकेऽपिइथानिष्टरूपतयाद्विविधेहीनमध्यमोत्कृष्टभेदमित्येतत्भावतःपरमार्थतः सुष्ठुज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते, तदकरणादति भावः, स्यात्-किमालम्ब्यैतत्कर्त्तव्यमित्याह-'आगइ' मित्यादि, आगमनम्-आगतिः साचतिर्यमनुष्योश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयोद्धैधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्मावाद्, एवं देवगतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिंच परिज्ञाय संसारचक्रवालेऽकधट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामध्श्यमानाभ्यामनपदिश्यमानाभ्यांवा, क्त्वाप्रत्ययस्योत्तरक्रियामाह-'से' इत्यादि, सः-आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्धयत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि
__'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः।अपरेचसाम्प्रतक्षिणः कुतोवयमागताः? कवयास्यामः? किंवा तत्रनःसम्पत्स्यते? नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाहमू. (१२८) अवरेण पुट्विं न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं
भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ।। वृ. रूपकं, 'अपरेण पश्चात्कालभाविना सहपूर्वमतिक्रान्तंन स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्मूतं बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तंच
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org