SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ आचाराङ्ग सूत्रम् १/३/३/१२५ तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानं नकुर्यात् । .. सर्वत्रात्मौपम्यं समाचरेदित्याह-'आयओ' इत्यादि, यथाह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथाबहिरपि-आत्मनोव्यतिरिक्तानामपिजन्तूनांसुखप्रियत्वमसुखाप्रियत्वंच पश्य' अवधारय तदेवमात्मसमतांसर्वप्राणिनामवधार्य किंकर्तव्यमित्याह-'तम्हा' इत्यादि, यस्मात्सर्वेऽपिजन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां न हन्ता' न व्यापादकः स्यानाप्यपरैस्तान् जन्तून विविधैःनानाप्रकारैरुपायैर्घातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्त्वान् स्वयं पाषण्डिनो न ध्नन्ति तथाऽप्यौद्देशिकसन्निध्यादिपरिभोगानुमतेरपरैर्धातयन्ति।नचैकान्तेन पाषकाकरणमात्रतया श्रमणो भवतीतिदर्शयति- 'जमिण' मित्यादि, यदिदं यदेतत् पापकर्माकरणताकरणं, किंतद्?, दर्शयति-अन्योऽन्यस्यपरस्परं या विचिकित्सा-आशङ्का परस्परतो भयंलज्जा वा तया तांवा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात् ?, किं मुनिरितिकृत्वा पापकर्म न करोति?, काक्वा पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तात्पापानुष्ठानविधायीन सअज्ञे किमेतावतैवमुनिरसौ ?, नैवमुनिरित्यर्थः, अद्रोहाध्यवसायोहिमुनिभावकारणं, सचतत्र न विद्यते, अपरोपाध्यावेशात्, विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया आधाकर्मादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विन्नेति?,आचार्यआह-सौम्य!निरस्तापरव्यापारःश्रृणु-'जमिण मित्यादि, अपरोपाधिनिरस्तहेयव्या-पारत्वमेवमुनिभावकारणमितिभावार्थः, यतःशुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथेति, अयंतावनिश्चयनयाभिप्रायोयव्यवहाराभिप्रायेणतूच्यतेयोहिसम्यग्दष्टिरुक्षिप्तपञ्चमहाव्रतमारस्तद्वहनेप्रमाद्यन्नप्यपरसमानसाधुलज्जयागुवद्याराध्यभयेन गौरवेणवाकेनिचिदाधाकादिपरिहरन्प्रत्युपेक्षणादिकाः क्रियाः करोति, यदिचतीर्थोद्मासनाय मासक्षपणातापनादिकाजनविज्ञाताः क्रियाः करोति, तत्रतस्य मुनिभावएवकारणं, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः॥तदेवंशुभान्तःकरणव्यापारविकलस्यमुनित्वेसदसद्मावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आहमू. (१२६) समयं तत्थुवेहाए अप्पाणं विप्पसायए अन्नन्नपरमं नाणी, नो पमाए कयाइवि । आयगुत्ते सया वीरे, जायामायाइ जावए वृ. समभावः समता तां तत्रोप्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करकरोति येन केनचित्प्रकारेणानेषणीयपरिहरणंलज्जादिनाजनविदितंचोपवासादितत्सर्वंमुनिभावकारणमिति, यदिवासमयम्-आगमंतत्रोप्रेक्ष्ययदागमोक्तविधिनानुष्ठानंतत्सर्वंमुनिभावकारणमितिभावार्थः, तेनचा गमोटोक्षणेनसमतोटोक्षयावाऽऽत्मानं विप्रसादयेद् विविधंप्रसादयेदागमपर्यालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नताचसंयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याहच-'अनन्नपरममित्याद्यनुष्टुप, न विद्यतेऽन्यः परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नोप्रमादयेत्' तस्यप्रमादनकुर्यात्कदाचिदपि, यथाचाप्रमादवत्ताभवतितथा दर्शयितुमाह-'आयगुत्ते' इत्यादि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy