SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७५ श्रुतस्कन्धः-१, अध्ययनं -३, उद्देशक:३ वृ.इष्टाप्राप्तिविनाशोत्थोमानसोविकारोऽरतिः,अभिलषितार्थावाप्तवानन्दः, योगिचित्तस्यतु धर्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावदनुत्थानमेवेत्यतोऽपदिश्यतेकेयमरतिमि को वाऽऽनन्द इति ?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद्यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, नप्रसङ्गायाते अप्यरतिरती, तदाह-‘एत्थंपी'त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते 'ग्रहो' गाद्धर्यं तात्पर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवतिशुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह-'सव्व' मित्यादि, सर्वंहास्यंतदास्पदं वापरित्यज्याङ्-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः परिः-समन्ताव्रजेत्परिव्रजेत्-संयमानुष्ठानविधायी भवेदिति। तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति-'पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह-पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो-जन्तु;, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते-यथाहे पुरुष-हे जीव! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रं, विपर्ययावामित्रः, किमिति बहिर्मित्रमिच्छसि ?-मृगयसे, यतो ह्युपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतंसन्मार्गपतितमात्मानं विहायनान्येनशक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितं, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात, विपर्ययाच विपर्ययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टोदयनिमित्तत्वादौपचारिक इति, उक्तं हि॥१॥ "दुप्पत्थिओ अमित्तं अप्पा सुपस्थिओ अ ते मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च" ॥१॥ (तथा)- “अप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः। ___मरणानि त्वनन्तानि, जन्मानिच करोत्ययम्" यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः? किंफलश्चेत्याह मू. (१३१) जं जाणिज्जा उच्चालइयं तं जाणिजा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिनिगिज्झएवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्सआणाएसेउवट्ठिएमेहावीमारंतरइ, सहिओधम्ममायाय सेयंसमनुपस्सइ वृ. 'यं पुरुषं 'जानीयात्' परिच्छिन्द्यात्कर्मणां विषयसङ्गानांचोच्चालयितारम्-अपनेतारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy