________________
आचाराङ्ग सूत्रम् 9/-19/-/- [नि. २६]
-एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह - नि. [२६]
उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं ।
___ अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं नि. [२७] सूएण निसाईए कुक्करओ सोवि होइ नावव्वो।
एसो बीओ भेओ चउब्विहो होइ नायव्वो
-अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम् । उग्रपुरुषः
| विदेहः पुरुषः । निषाद पुरुषः | शूद्र पुरुषः क्षत्ता स्त्री क्षत्ता स्त्री अम्बष्ठी स्त्री शूद्री स्त्री वा | निषादस्त्री | श्वपाकः । वैणवः बुक्कसः कुक्कुरकः ।
__-गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आह - नि. [२८] दव्वं सरीरभविओ अन्नाणी वत्थिसंजमोचेव ।
भावे उ वस्थिसंजम नायव्वो संजमो चेव वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनांचकुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्मतु साधूनांवस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरुपत्वादस्येति, अष्टादशभेदास्त्वमी--"दिव्यात्कामरतिसुखात्रिविधंत्रिविधेनविरतिरितिनवकम्।औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥चरणनिक्षेपार्थमाह - नि. [२९] चरणंमि होइ छक्कं गइमाहारोगुणो व चरणंच।
खइत्तमिजंमि खित्ते काले कालो जहिं जाओ वृ. चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति-गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्य्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावाचरणमाहनि. [३०] भावे गइमाहारो गुणो गुणवओ पसत्यमपसत्था ।
गुणचरणे पसत्येण बंभचेरा नव हवंति वृ. भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेअटेगच्छतः, भक्षणचरणमपि शुद्धं पिण्डमुपभुञानस्य, गुणचरणमप्रशस्तं मिथ्या दृष्टीनां सम्यग् दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तरगुणकलापविषयम्, इहचानेनैवाधिकारो, यतोनवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमुनशील्यन्तेएतेषां चान्वार्थाभिधाननि दर्शयितुमाह - नि. [३१] सत्थपरिण्णा लोगविजओ य सीओसणिज्ज सम्मत्तं ।
तह लोगसारनामंधुयं तह महापरिण्णा य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org