SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - १, उपोद्घातः नि. [३२] अट्ठमए य विमोक्खो उवहाणसुयं च नवमगं भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ वृ. स्पष्टे, केवलमित्येष नवाध्ययनरुप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणिआचाराग्राणीति ॥ साम्प्रतमुपक्र मान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाह - नि. [३३] जिअसंजभो अ लोगो जह बज्झइ जह य तं पजहियव्वं । सुहदुक्खतितिक्खाविय सम्मत्तं लोगसारो य निस्संगया य छट्टे मोहसमुत्था परीसहुवसग्गा । निजाणं अट्ठमए नवमे य जिणेण एवं ति नि. [३४] वृ. तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो - 'जियसंजमो' त्ति जीवेषु संयमो जीवसंयमःतेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियव्वं 'ति, विजितभावलोकेन सयमस्थितेन लोको यथा बध्यते अष्टिवधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते । सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम् प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपःसेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम् प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम् - संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम्-निर्याणम्अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे त्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तठप्रदर्शनं च शेषसाधूनामुत्साहार्थं, तदुक्तम् I 11911 “तित्थयरो चउनाणी सुरमहिओ सिज्झियव्यधुवंनि अणिगूहियबलविरिओसव्वत्थामेसु उज्जमइ' “किं पुण अवसेसिहिं दुक्खक्खयकारणा सुविहिएहिं होंति न उज्जमियव्वं सपच्चवायंमि माणुस्से" - साम्प्रतमुद्देशार्थधिकारः शस्त्रपरिज्ञाया अयम्जीवो छक्कायपरुवणा य तेसिं वहे य बंधोत्ति । विरईए अहिगारो सत्यपरिन्नाए नायव्वो ॥२॥ १५ नि. [३५] वृ. तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवी कायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वाप्रत्येक मुद्देशार्थषु योजनीयं, प्रथमोद्देशके जीवस्तद्बन्धे बन्धो विरतिश्चेत्येवमिति ।। तत्र शस्त्र - परिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह - नि. [३६] Jain Education International दव्वं सत्यग्गिविसन्नेहंबिलखारलोणमाईयं । भावो य दुप्पउत्तो वाया काओ अविरई या For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy