________________
१६६
आचाराङ्ग सूत्रम् १/-/३/२/११५ ॥२॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ।
माऊए अप्पणोऽविअ वेअणमउलं जनेमानो" ॥३॥ (तथा) - हीनभिन्नसरो दीनो, विवरीओ विचित्तओ।
दुब्बलो दुक्खिओवसइ, संपत्तो चरिमंदसं' इत्यादि, अथवाआर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! जातिंवृद्धिंच तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्टाऽवबुद्धयस्व, यथा च जात्यादिकं न स्यात् तथा विधस्त्व । किंचापरं- 'भूएहि मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सातं-सुखं प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवंमत्वाऽन्येषामसातोत्पादनंन विदध्याः, एवंचजन्मादिदुःखंनप्राप्स्यसीति, उक्तंच॥१॥
“यथेष्टविषयाः सातमनिष्टा इतरत्तवं।
अन्यत्रापि विदित्वैवं, न कुर्यादप्रियंजने" यद्येवंततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद्' जातिवृद्धिसुखदुःखदर्शनादतीवविद्यातत्त्वपरिच्छेत्री यस्यासावतिविद्यः स ‘परमं' मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यकत्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाहमू. (११६) उम्मुंच पासं इह मच्चिएहिं, आरंभजीवी उभयानुपस्सी।
कामेसु गिद्धा निचयं करंति, संसिच्चमाणा पुनरिति गम्भं । वृ. 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारेमत्यैः सार्द्धद्रव्यभावभेदभिन्न पाशमुत्-प्राबल्येन 'मुञ्च' अपाकुरु, सहि कामभोगलालसस्तदादानहेतोहिंसादीनि पापान्यारभते
अतोऽपदिश्यते-'आरंभ' इत्यादि, आरम्भणजीवितुंशीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहए. रिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किंच'कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धाः-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति । यदि नामैवंततः किमित्याह-'संसिच्च' इत्यादि, तेन कामोपादानजनितेन कर्मणा ‘संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभृतात्मा किंभूतो भवतीत्याहमू. (११७) अवि से हासमासज्ज, हंता नंदीति मन्नई।
अलं बालस्स संगेण, वेरं वड्डेइअप्पणो । वृ. हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य ‘स' कामगृघ्नुर्हत्वाऽपि प्राणिनो 'नन्दी ति क्रीडेति मन्यते, वदति च महामोहावृत्तोऽशुभाध्यवसायो यथा एते पशवो मृगया) सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादत्तादानादिष्वप्यायोज्यं । यदि नामैवंततः किमित्याह-'अल'मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिसङ्गेनालं, किमिति चेद् ?, उच्यते, 'वेर' मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्बालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्नि-शर्माणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं, एवमन्यत्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org