________________
श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशक:२
१६७
विषयसङ्गादावा योज्यं ।। यतश्चैवमतः किमित्याहमू. (११८) तम्हातिविजो परमंति नच्चा, आयंकदंसी न करेइ पावं ।
अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निक्कामदंसी । वृ. यस्माद्बालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परम-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह- 'आयंके'त्यादि, आतङकोनरकादिदुःखंतद्रष्टुंशीलमस्येत्यातङ्कदर्शी स पापं' पापानुबन्धि कर्मन करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते। पुनप्र्युपदेशदानायाह-'अग्गंच'इत्यादि, अग्रंभवोपग्राहिकर्मचतुष्टयं मूलंघातिकर्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि त्वग्रं, यदिवा मिथ्यात्वं मूलं शेषं त्वग्रं, तदेवं सर्वमग्रंमूलं च विगिंच' इतित्यजापनय पृथक्कुरु, तदनेनेदमुक्तंभवति-न कर्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् ? इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्तंच॥१॥ "न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्मणां,
न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् ।
अनादिभवहेतुरेष न च बध्यते नास
कृत्त्वयाऽतिकुटिला गतिः कुशल ! कर्मणां दर्शिता" तथा चागमः- “कहन्नभंते! जीवाअट्ठ कम्मपगडीओबंधंति?,गोयमा! नाणावरणिजस्स उदएणं दरिसनावरणिज्जं कम्मं नियच्छइ, दरिसनावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणीयं कम्मं नियच्छइ, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिण्णेणंएवं खवुजीवे अट्ठकम्मपगडीओबंधई", क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तंच॥१॥ “नायगंमि हते संते, जहा सेना विनस्सई।
एवं कम्मा विनस्संति, मोहणिज्जे खयं गए" इत्यादि, अथवा मूलम्-असंयमः कर्म वास अग्रं-संयमतपसी मोक्षो वातेमूलाग्रे धीरः' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । किं च-'पलिच्छिदिया णमित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्काणमात्मानं पश्यतितच्छीलश्च निष्कर्मत्वाद्वाअपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति ॥ यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह
मू. (११९) एस मरणा पमुच्चइ, से हु दिट्ठभए मुनी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिवए, बहुंच खलु पावं कम्मं पगडं।
वृ. 'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्म्मदर्शीमरणाद्-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-से हु' इत्यादि, 'सः' अनन्तरोक्तो मुनिष्टं संसाराद्मयं सप्तप्रकारंवायेन स तथा, हुरवधारणे दृष्टभय एव । किं च लोयंसि' इत्यादि, लोके द्रव्याधारेचतुर्दशभूतग्रामात्मकेवा परमो-मोक्षस्तत्कारणंवा संयमः तंद्रष्टुंशीलमस्येति परमदर्शी, तथा विविक्तं स्त्रीपशुपण्डकसमन्वितशय्यादिरहितंद्रव्यतः भावतस्तु रागद्वेषहितमसङ्क्लिष्टं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org