________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः १
१६५
तद्यथा-मनुजगति १ पञ्चेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यशःकीर्त्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां बिभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टिर्वा द्विचरमसमये क्षयमुपयान्ति एता एव नव अतीर्थकरकेवलिनस्स्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्म्मतास्थानमिति ।
सामान्येन गोत्रस्य द्वे सत्कर्म्मतास्थाने, तद्यथा उच्चनीचगोत्रसद्भावे सत्येकं सत्कर्म्मतास्थानं, तेजोवायूचैर्गोत्रोद्दलने कालंकलीभावावस्थायां नीचैर्गौत्रसत्कर्म्मतेति द्वितीयं यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्म्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्म्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किंच -
-
मू. (११४) कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिन्नाय मेहावी, विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिज्जासि-त्तिबेभि ।।
वृ. कर्मणो मूल कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, च समुच्चये, कर्म्ममूलं च प्रत्युपेक्ष्य 'यत्क्षण' मिति 'क्षणु हिंसायां' क्षणनं हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्म्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा 'कम्मामाहूय जं छणं' य उपादानक्षणोऽस्य कर्म्मणः तत्क्षणं कर्म्माहूय-कर्म्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद्, इदमुक्तं भवति - अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्म्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोर्नवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह- 'पडिलेहिअ' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म्म तद्विपक्षमुपदेशं च सर्वं 'समादाय' गृहीत्वा अन्तहेतुत्वादन्तौ रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा र. कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्त्वा च 'लोकसंज्ञां' विषयपिपासासंज्ञितां धनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषड्वर्गं वाऽष्टप्रकारं वा कर्म्मावष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययनं-३ - उद्देशकः-१ समाप्तः
-: अध्ययनं-३, उद्देशकः २ :
वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्
मू. (११५) जाईं च वुढि च इहऽज्ज! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविज्जे परमंति नच्चा, संमत्तदंसी न करेइ पावं ॥
वृ. जातिः- प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च 'पश्य' अवलोकय, इदमुक्तं भवति जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च“जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेन दुक्खेन संतत्तो, न सरइ जाइमप्पणी
11911
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org