SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ आचाराङ्ग सूत्रम् १/३/१/११३ नवविधंनिद्रापञ्चकदर्शनचतुष्टयसमन्वयाद्एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसख्येयभागान्यावत् १, ततःकतिचित्सख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाचतुःसत्कर्मातास्थान, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ । वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वेअपिसातासातेइत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षयेसतिसातमसातं वा कर्मेति द्वितीयं २ । मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा षोडश कषाया नवनोकषाया दर्शनत्रये सतिसम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोदलने सम्यग् मिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोद्वलनेऽनादिमिथ्यादृष्टेर्वा षड्विशतिः ३, सम्यग्दृष्टेष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्वलने क्षपणे वा चतुर्विशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षयेद्वाविंशतिः६, क्षायिकसम्यग्दृष्टेरेकविंशतिः७,अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्याद्विषट्कक्षये पञ्च ११, पुंवेदाभावे चत्वारि १२, सञ्जवलनक्रोधक्षये त्रयः १३, मानक्षये द्वौ १४, मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति आयुषो द्वे सत्कर्मातास्थाने सामान्येन, तद्यथा-परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्वन्धाभाव इति। नाम्नो द्वादश सत्कर्मतास्थानानि, तद्यथ - त्रिनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५अशीतिः ६एकोनाशीतिः७अष्टसप्ततिः ८ षट्सप्ततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः-गतयश्चतस्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ पञ्च सङ्घाताः ५बन्धनानि पञ्च ५ संस्थानानिषट्६अङ्गोपाङ्गत्रयं ३संहननानिषट्वर्णपञ्चकं५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलघूपघातपराघातोच्छ्वासातपोद्योताः षट् ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तक स्थिरादेययशांसिसेतराणीतिविंशतिः२०निर्माणंतीर्थकरत्वमित्येवंसर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्गातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोदलनेषडशीतिः ८६, यदिवाअशीतिसत्कर्मणो नरकगतिप्रायोग्यंबनतः तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रि रियचतुष्टयोदलनेऽशीतिः ८० पुनर्मनुष्यगत्यानुपूर्वीद्वयलनेऽष्टसप्ततिः ७८, एतान्यक्षपकाणां सत्कर्मतास्थानानि । क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योत स्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयो-दशभिः कर्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावहारकचतुष्टयापगमेनैकोननवतिः सञ्जाता ततस्त्रयोदशनाम्नि क्षपिते षटसप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्ष्यमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्मतास्थानं, ताश्च वेद्यमाना नवेमाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy