________________
श्रुतस्कन्धः - १, अध्ययनं- ३, उद्देशकः१
१६३ थाग्रहणाद्वक्र :, किंच-सऋजुः शब्दादीनुपेक्षमाणोमरणंमारस्तदभिशङ्की-मरणादुद्विजंस्तत्करोति येन मरणात् प्रमुच्यते । किं तत्करोतीत्याह - 'अप्पमत्त' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तोभवेत् कश्चाप्रमत्तः स्याद् ?, यःकामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति
___ “उवरओ' इत्यादि, उपरतो मनोवाक्कायैः, कुतः ?-पापोपदानकर्मेभ्यः, कोऽसौ ? - वीरः, किम्भूतो? -गुप्तात्मा, कश्च गुप्तो भवति?, यः खेदज्ञो, यश्च खेदज्ञःसकंगुणमवाप्नुयादित्याह 'जेपज्जव' इत्यादि, शब्दादीनां विषयाणांपर्यवाः-विशेषास्तेषु-तन्निमित्तंजातंशस्त्रं पर्यवजातशस्त्रंशब्दादिविशेषोपादानाय यप्राण्युपघातकार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य पर्यवजातशस्त्रस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरवद्यानुष्ठानरूपस्य संयमस्य खेदेज्ञो, यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमूक्तं भवति-यः शब्दादिपर्यायानिष्ठानिष्टात्मकान् तत्प्राप्तिपरिहरानुष्ठानंचशस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममप्यशस्त्रभूतमात्मपरोपकारिणं वेत्ति, शस्त्राशस्त्रे च जानानस्तत्प्राप्तिपरिहारौ विधत्ते, एतत् फलत्वात् ज्ञानस्येति, यदिवा शब्दादिपर्यायेभ्यस्तज्जनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापिखेदज्ञः, पूर्वोक्तादेव हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च 'संयमतपःखेदज्ञस्यावनिरोधादनादिभवोपात्तकर्मक्षयः। कर्मक्षयाच्च यद्भवति तदप्यतिदिशति
'अकम्मस्स' इत्यादि, न विद्यतेकाष्टप्रकारमस्येत्यकम्तस्य व्यवहारोन विद्यते' नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग्भवति । यश्च सकास नरकादिव्यपदेशेन व्यपदिश्यत इत्याह - ‘कम्मुण' इत्यादि, उपाधीयते-व्यपदिश्यते येनेत्युपाधिःविशेषणं स उपाधिः कर्मणा-ज्ञानवरणीयादिना जायते, तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनीअचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्याष्टिः सम्यग्मिथ्याष्टिः स्त्रीपुमान्नपुंसकः कषायीत्यादि, सोपक्रमायुष्कोनिरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो नीचैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्त्तव्यमित्याह -
__ 'कम्मंच इत्यादि, कर्म-ज्ञानवरणीयादित प्रत्युपेक्ष्यबन्धंवा प्रकृतिस्थित्यनुभावप्रदेशात्मकं पालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा-अष्टविधसत्कर्मापूर्वादिकरणक्षपकश्रेणिप्रक्रमेणमोहनीयक्षयं विधायान्तर्मुहूर्त्तमजघन्योत्कृष्टंकालंसप्तविधसत्कर्मा, ततःशेषघातित्रयेक्षीणेचतुर्विधभवोपग्राहिसत्काजघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोदेशानांपूर्वकोटिं यावत्, पुनरूध्र्वं पञ्चस्वाक्षरोद्गिरणकालीयां शैलेश्यवस्थामनुभूयाका भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्माताविधानमुच्यते-तत्र ज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेद योश्चतुर्दशस्वपिजीवस्थानकेषुगुणस्थानकेषुच मिथ्याटेरारभ्य केवलिगुणस्थानादारतोऽपर-विकल्पाभावात् पञ्चविधसत्कर्मता । दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www