________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः १
१६१
अथवा शब्दे पुष्पशालाद्भद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति ॥
एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह - मू. (१११) से आयवं नाणवं वेयवं धंमवं बंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ उज्जू, आवट्ठसोए संगमभिजाणइ ॥
वृ. यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान्दुःखैकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे 'स' मुमुक्षुरात्मवान्-आत्माज्ञानादिकोऽस्यास्तीत्यत्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति पाठान्तरं वा 'से आयवी नाणवी' आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानं यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपम् अनेनेति वेदः - आचाराद्यागमः तं वेत्तीत्ति वेदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्गं धर्म्म वेत्तीति धर्म्मवित्, एवं ब्रह्मअशेषमलकलङ्कविकलं योगिशर्म्म वेत्तीति ब्रह्मवित्, यदिवा अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि-मत्यादीनि तैर्लोकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति-परिच्छिनत्तीत्युक्तं भवति य एव शब्दादिविषयसङ्गस्य परिहर्त्ता स एव यथावस्थितलोकस्वरूपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह
-
'मुनी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्म्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च‘धम्म' इत्यादि, धर्म्म-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूप वा वेत्तीति धर्मवित्, 'ऋजु'रिति ऋजोः - ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्म्मविध्जुर्मुनिः किम्भूतो भवतीत्याह - 'आवट्ट' इत्यादि, भावावर्त्तो-जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि “रागद्वेषवशाविद्धं, मिध्यादर्शनदुस्तरम् ।
11911
जन्मावर्त्ते जगत्क्षिप्तं, प्रमादाद्भ्राम्यते भृशम् ॥”
भावश्श्रोतोऽपि शब्दादिकामगुणविषयाभिलापः, आवर्त्तश्च श्रोतश्चवर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः सङ्गरतमभिजानाति आभिमुख्येन परिच्छिनत्ति यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते ?, योऽनर्थं ज्ञात्वा परिहरति, ततश्चायमर्थःसंसारश्रोतः-सङ्गं रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव नाआवर्त्तनोतसोः सङ्गस्याभिज्ञाता ॥ सुप्तजाग्रतां दोषगुणपरिच्छेदी क गुणमवाप्नुयादित्याह -
मू. (११२) सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामच्चुवसोवणिए नरे सययं मूढे धम्मं नाभिजाणइ ।
वृ. सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषतां - कर्कशतां पीडाकारितां
111
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org