________________
१६०
आचाराङ्ग सूत्रम् 9/-/३/१/१०९ [नि.२१४]
॥३॥ नालस्सेण समं सुक्खं, न विज्जा सह निद्दया ।
नवेरग्गंपमाएणं, नारंभेण दयालुया॥ ॥४॥ जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ।
वच्छाहिवभगिणीए अकहिंसु जिणोजयंतीए॥ ॥५॥ सुयइय अयगरभूओ सुअंपि से नासई अमयभूअं।
होहिइ गोणब्यूओ नटुंभि सुए अमयभूए॥" तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपन्नपि यः 'संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति । ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं, दुःखंचजन्तूनामहितायेति दर्शयति
मू. (११०) लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सद्दाय रूवा य रसाय गंधाय कासा य अभिसमन्नागया भवंति॥
वृ. 'लोके षड्जीवनिकाये 'जानीहि' परिच्छन्द्या दुःखहेतुत्वाद्दुःखम्-अज्ञानं मोहनीयं वा तदहिताय-नरकादिभवव्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभावस्वापादज्ञारूपाहुःखहेतोरपसर्पणमिति, किं चान्यत्-'समय'मित्यादि, समयः-आचारोऽनुष्ठानंतलोकस्यासुमद्वातस्यज्ञात्वाअत्रशस्त्रोपरतो भवेदित्युत्तरसूत्रेणसम्बन्धो, लोकोहि भोगाभिलाषितयाप्राण्युपमर्दादिकषायहेतुकंकर्मोपादाय नरकादियाननास्थानेषूत्पद्यते,ततःकथञ्चिवृत्त्यावाप्यचाशेषक्लेशव्रातघ्नंधर्मकारणमार्यक्षेत्रादौ मनुष्यजन्मपुनरपिमहामोहमोहितमतिस्तत्तदारभते येनयेनाधोऽधोव्रजति, संसारान्नोन्मज्जतीति, अयंलोकाचारस्तंज्ञात्वाअथवासमभावः समतातांज्ञात्वा, लोकस्येति सप्तम्यर्थेषष्ठी,ततश्चायमर्थो ___'लोके जन्तुसमूहे 'समतां' समशत्रुमित्रतां समात्मपरतं वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह - 'एत्थ सत्थोवरए', 'अत्र' अस्मिन् षटकायलोके शस्त्राद्रव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यत्संयमशस्त्रं प्राणातिपाताद्यानवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गोवा तस्माद्यउपरतःसमुनिरिति, आहच 'जस्सिमे' इत्यादि, यस्य मुनेरिमे-प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदेभिन्ना 'अभिसमन्वागता' इति, अभिः-आभिमुख्येन सम्यग्-इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमात् पश्चादागताः-ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति-इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं तेषांनान्यदिति, यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तांतावत्परलोक इति, उक्तंच॥१॥ "रक्तः शब्दे हरिणः स्पर्शे नागोरसे च वारिचरः ।
कुपणपतको रूपे भुजगो गन्धे ननु विनष्टः॥ ॥२॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः ।
एकः पञ्चसु रक्तःप्रयाति भस्मान्ततामबुधः॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org