________________
श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशक:
१५९
नि. [२१२] सुत्ता अमुणिओ सया मुणिओ सुत्ताविजागरा हुंति।
धम्मं पडुच्च एवं निद्दासुत्तेण भइयव्वं ॥ वृ. सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्था मिथ्यात्वाज्ञानावृता हिंसाद्यानवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वादि- निद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव, यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सद जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्दवस्थाश्च । द्रव्यनिद्रासुप्तेन तु भाज्यमेतद्-धर्मः स्याद्वा नवा, यद्यसौभावतोजागर्तिततो निद्रसुप्तस्यापिधर्मः स्यादेव, यदिवा भावतोजाग्रतोनिद्राप्रमादा-वष्टब्धान्तःकरणस्यनस्यादपि, यस्तुद्रव्यभावसुप्तस्तस्यनस्यादेवेति भजनार्थः । अथ किमितिद्रव्यसुप्तस्य धर्मोन भवतीति?, उच्यते, द्रव्यसुप्तो हि निद्रया भवति, साच दुरन्ता, किमिति?, यतःस्त्यानद्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्वन्धश्च मिथ्याष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिरर्वृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु-सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तोनिद्राप्रमादः । यथा च द्रव्यसुप्तो दुःखमवापप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह - नि. [२१३] जह सुत्तमत्त मुच्छिय असहीणो पावए बहुं दुक्खं ।
तिव्वं अपडियारंपि वट्टमाणो तहा लोगो ।। वृ. सुप्तो निद्रया मत्तो मदिरादिना मूर्छितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवाप्नोति, तथा भावस्वापेमिथ्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकभवादिकंदुःखमवाप्नोतीति गाथार्थः॥पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाहनि. [२१४] एसेवय उवएसो पदित्त पयलाय पंथमाईसुं।
अनुहवइजह सचेओ सुहाइं समणोऽवितह चेव ॥ वृ. 'एष एवं पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि-सचेतनोविवेकीप्रदीप्ते सतिप्रपलायमानःसुखमनुभवति, पथिविषयेचसापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति, यथा विवेकी सुखेनैव तमपायं परिहरन् सुखभाग भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाज्जाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति । अत्र च सुप्तासुप्ताधिकारगाथाः॥१॥ “जागरह नरा निच्चं जागरमाणस्स वड्ढए बुद्धी।
जो सुअइ न सोधन्नो जो जग्गइ सो सया धन्नो। ॥२॥ सुअइ सुअंतस्स सुअंसंकियखलियं भवे पमत्तस्स।
जागरमाणस्स सुअंथिरपरिचिअमप्पमत्तस्स ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org