SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ आचाराङ्ग सूत्रम् १/-/३/-/- [नि. २०९] वृ. 'दह्यते' परिपच्यते, कोऽसौ ?- 'तीव्रा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापरोऽसावपि दह्यते, तथा उदीर्णोविपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे काङ्क्षद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्वं वा मोहनीयमष्टप्रकारं वा कर्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णातरं तप इति गाथाशकलेन दर्शयति-उष्णतरं तपो भवति, किमिति ?-यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः । येनाभिप्रायेण द्रव्यभावभेदभिइन्ने परीषहप्रमादोद्य-मादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोतिनि. [२१०] सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो। हुज्ज समणो सया उज्जुओ यतवसंजमोवसमे॥ वृ. शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियावत्, शरीरमनसोरनुकूलं सुखमति, तद्विपरीतं दुःखं, तथा परीषहकषायवेदशोकान शीतोष्णभूतान सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः' यतिः सदोधुक्तश्च, क्व?-तपःसंयमोपशमे इति गाथार्थः॥साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयतिनि. [२११] सीयाणि य उण्हाणि य भिक्खूणं हुंति विसहियव्वाई। कामान सेवियव्वा सीओसणिज्जस्स निजुत्ती॥ वृ. 'शीतानि' परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतपउद्यमकषायशोकवेदारत्यात्मकानिप्रागभिहितानितानि भिक्षूणां मुमुक्षूणांविषोढव्यानि, नसुखदुःखयोः उत्सेकविषादौ विधेयौ, तानिचैवंसम्यग्दृष्टिनासह्यन्तेयदि कामपरित्यागोभवतीति गाथाशकलेनाह - 'कामा' इत्यादि गाथार्द्ध सुगमं । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषव्रातविकलं सूत्रमुचारयितव्यं, तच्चेदम् -अध्ययनं ३-उद्देशक:-१:मू. (१०९) सुत्ता अमुनी सया मुनिनो जागरंति। वृ.अस्यचानन्तरसूत्रेणसम्बन्धोवाच्यः,सचायम्-इहदुःखीदुःखानामेवावर्त्तमनुपरिवर्तत इत्युक्तं, यदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तमनुपरिवर्तन्ते इति, उक्तंच॥१॥ “नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ' 'इत्यादि, इह सुप्ता द्विधा-द्रव्यतोभावतश्च, तत्रनिद्राप्रमादवन्तोद्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततोये अमुनयः' मिथ्याईष्टयःसततंभावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् निद्रयातु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्अनवरतं 'जाग्रति' हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि कविचद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥ एनमेव भावस्वापंजागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगाद For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy