SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-३, उपोद्घात: १५७ वृ. तीव्रो-दुःसहःपरिणामः-परिणतिर्येषांतेतथा,यएवम्भूताः परीषहास्ते उष्णाः, येतु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति-ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्तेतीव्रपरिणामत्वादुष्णाः,येपुनरुदीर्णाःशारीरमेवकेवलंदुःखमुत्पादयन्ति महासत्त्वस्यनमानसंतेभावतोमन्दपरिणामाः,यदिवायेतीव्रपरिणामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः,येतुमन्दपरिणामाः-ईषल्लक्ष्यमाणस्वरूपास्तेशीताइति।यत्परीषहानन्तरंप्रमादपदमुपन्यस्तं शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टेनि. [२०५] धंमंमिजोपमायइ अत्थे वा सीअलुत्तितं बिंति । उजुत्तं पुण अन्नं तत्तो उण्हंति णं बिंति॥दारं॥ वृ.'धर्मे' श्रमणधर्मे यः 'प्रमाद्यति'नोद्यमंविधत्ते अर्थेवा' अर्थ्यतइत्यर्थो-धनधान्यहिरण्या-दिस्तत्र तदुपायेवा शीतलइत्येवंतं 'ब्रुवते' आचक्षते, उद्युक्तंपुनरन्यंततः-संयमोद्यमात् कारणादुष्णमित्येवंब्रुवते,णमितिवाक्यालङ्कार इतिगाथार्थः।।उपशमपदव्याचिख्यासयाऽऽह नि. [२०६] सीऊभुओ परिनिव्वुओय संतो तहेव पण्हाणो (ल्हाओ)। होउवसंतकसाओतनुवसंतो भवे जीवो ॥ दारं॥ वृ. उपशमो हिक्रोधाधुदयाभावे भवति, ततश्च कषायाग्नयुपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात्परिनिर्वृत्तो भवति, चः समुच्चये, रागद्वेषपावकोपशमपदुशान्तः, तथा क्रोधादिपरितापोपशमात् 'प्रह्लादितः' आपन्नसुखो, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थकानि वैतानीति गाथार्थः।। अधुना विरतिप-दव्याख्यामाह - नि. [२०७] अभयकरोजीवाणं सीयधरो संजमो भवइ सीओ। अस्संजमो य उण्हो एसो अन्नोऽविपज्जाओ॥दारं। वृ. अभयकरण शीलः, केषां?- जीवानां, शीतं-सुखं तद्गृहं-तदावासः, कोऽसौ ?संयमः सप्तदशभेदः,अतोऽसौ शीतोभवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, “एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखस्वरूपो विवक्षावशाद्भवतीति गाथार्थः।। साम्प्रतं सुखपदविवरणायाहनि. [२०८] निव्वाणसुहंसायं सीईभूयं पयंअनाबाह। इहमविजं किंचि सुहं तं सीयं दुक्खमवि उण्हं ।। वृ. सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकंपरमार्थचिन्तायांमुक्तिसुखमेवसुखंनापरम्, एतच्चसमस्तकर्मोपतापाभावाच्छीतमिति दर्शयति-'निर्वाणसुख मिति, निर्वाणम्-अशेषकर्मक्षयस्तदवाप्तौवा विशिष्टाकाशप्रदेशः तेन तत्रवासुखं निर्वाणसुखम्, अस्य चैकार्थिकानि-सातंशीतीभूतंपदमनाबाधमिति।इहापि संसारे यत्किञ्चित्सातावेदनीयविपाकोद्भूतंसातं सुखंतदपिशीतंमनआल्हादाद्, एतद्विपयर्यस्तुदुःखं, तच्चोष्णमिति गाथार्थः । कषायादिपदव्याचिख्यासयाहनि. [२०९] डज्झइ तिव्वकसाओ सोगभिभूओ उइनवेओय। उण्हयरो होइ तवो कसायमाईवि जंडहइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy