________________
१५६
आचाराङ्ग सूत्रम् १/-/३/-/- [नि. २००]
शीतोष्णीयमध्ययनमतः शीतोष्णयोर्निक्षेपं निर्दिदिक्षुराह -
नि. [२०० ]
मंठवासीयं दव्वे भावे य होइ नायव्वं । एमेव य उपहस्सवि चउव्विहो होइ निक्खेवो ॥ वृ. सुगमा । तत्र नामस्थापने अनाध्त्य द्रव्यशीतोष्णे दर्शयितुमाहनि. [२०१] दव्वे सीयलदव्वं दव्वण्हं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अनेगविहो ॥
वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्याप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं-हिमतुषारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा- पुद्गलाश्रितं जीवाश्रितंच, गाथा शकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्रधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा - औदयिकादयः षड् भावाः, तत्रौदयिकः कर्म्मोदयाविर्भूतनारकादिभवकषायोत्पत्तिलक्षणः उष्णः, औपशमिकः कर्म्मोपशमवाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्म्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति । अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराह - नि. [२०२]
सीयं परीसहपमायुवसमविरई सुहं चउन्हं तु । परीसहतवुज्जमकसाय सोगाहिवेयारई दुक्खं ॥ दारं ॥
वृ. 'शीत' मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते स चायं परिणामोमार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः सच सम्यक्त्वशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरति 'रिति प्राणातिपातादिविरत्युपुलक्षितः सप्तदशविधः संयमः 'सुखं च' सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्वं परीषहादि शीतमुष्णं च गाथाशकलेनाह - परीषहाः पूर्वव्यावर्णितस्वरूपाः तपस्युद्यमो - यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः' क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवः आधिः 'वेदः' स्त्री पुंनपुंसकवेदोदयः ‘अरतिः' मोहनीयविपाकाच्चित्तदौःस्थ्यं 'दुःखंच' असातावेदनीयोदयादीनि, एतानि परीषहादीनिपीडा- कारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थं तु निर्युक्तकारः स्वत एवाचष्टे-तत्र परीषहाः शीतोष्णयोर्द्वयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाहइत्थी सक्कारपरीसहो य दो भावसीयला एए । सेसा वीसं उण्हा परीसहा हुंति नायव्वा ॥
नि. [२०३]
खू. स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौ शीतौ, भावमनोऽनुकूलत्वात्, शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः ॥
यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टे - नि. [२०४]
Jain Education International
जे तिव्वष्परिणामा परीसहा ते भवंति उण्हा उ । जे मंदप्परिणामा परीसहा ते भवे सीया ॥ दारं ॥
For Private & Personal Use Only
-
www.jainelibrary.org