________________
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:६
१५५ वृ.उद्दिश्यतेनारकादिव्यपदेशेनत्युद्देशः स पश्यकस्य' परमार्थशोन विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्तिं यावत्तृ तीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः काम समनुज्ञः अशमितदुःखः दुःखी दुखानामेवावर्त्तमनुपरिवर्त्तते । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ।।
अध्ययनं-२ उद्देशकः-६ समाप्तः तत्परिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषां तावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङगत्वाभावात् प्रत्येकं मिथ्याष्टित्वम्, अतः पङ्गवन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते॥
अध्ययनं-२ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाकाचार्यविरचिता प्रथम श्रुतस्कन्धेद्वीतीय अध्ययन टीका परिसमाप्ता।
(अध्ययन-३-शीतोष्णीय) वृ उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि, यथाशीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनंकर्त्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्ध संयमव्यवस्थितस्यविजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीषहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेनसम्यक्, सोढव्या इत्यनेनसम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽधिकारो द्वेधा, तत्राप्यध्ययनाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु निर्युक्तकार आह - नि. [१९८] पढमे सुत्ता अस्संजयत्ति १ बिइए दुहं अनुहवंति २।
तइए न हुदुक्खेणं अकरणयाए व समणुत्ति ३॥ नि. [१९९] उद्देसंमिचउत्थे अहिगारो उ वमणं कसायाणं।
पावविरईओ विउणो उ संजमो इत्थ मुक्खुत्ति४॥ वृ.प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः-सम्यगविवेकरहिताः, के?असंयताः- गृहस्थास्तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा - 'जरामच्चुवसोवणीएनरे' इत्यादि १, द्वितीयेतुतएवासंयता यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा - 'कामेसु गिद्धा निचयं करंति' २, तृतीये तु 'न हु' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च - ‘सहिए दुखमायाय तेणेव य पुट्ठो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, “विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः ॥ नामनिष्पन्ने तु निक्षेपे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org