SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ आचाराङ्ग सूत्रम् १/-/२/६/१०५ च, तद्यथा-ज्ञानप्रयत्नीकतयाज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैःप्रकारैर्योगत्रिककरणत्रिकरूपैर्नवर्तेत, अथवा सर्वशः परिज्ञायकथयति,सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा, यदिवा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधयाधर्मकथयेति।साचकीकथेत्याह-'जे' इत्यादि, अन्यद्रष्टुंशीलमस्येत्यन्यदर्शीयस्तथा नासावनन्यदर्शी-यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो?-यः सम्यग्दष्टिींनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति, उक्तंच॥१॥ “शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्राबौद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः" इत्यादि । तदेवंसम्यकत्वस्वरूपमाख्यातं कथयंश्चारक्तद्विष्टः कथयतीतिदर्शयति-'जहा पुन्नस्स' इत्यादि, तीर्थकरणगधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्तिमाण्डलिकादेः 'कथ्यते' उपदेशोदीयते तथा' तेनैव प्रकारेण 'तुच्छस्य' द्रमकस्यकाष्ठहारकादेः कथ्यते, अथवा पूर्णो जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तंच॥१॥ “ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । __ तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् " एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्धया प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवत्यादेरपि, यथा वा चक्रवत्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमः- एकरूपतयैव कथनीयं, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयं, किमसावभिगृहीतमिथ्याष्टिरनभिगृहीतो वा संशीत्यापन्नो वा ?, अभिगृहीतोऽपि कुतीर्थिकैव्युद्ग्राहितःस्वत एव वा?, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा॥१॥ “दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः" तद्भक्तिविषयरुद्रादिदेवताभवनचरितकथनेचमोहोदयात्तथाविधकर्मोदयेकदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह च मू. (१०६) अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कंच नए?, एसवीरेपसंसिए, जेबद्धे पडिमोयए, उड्ढे अहंतिरियंदिसासु, से सव्वओसव्वपरित्राचारी, नलिप्पईछणपएण, वीरे, से मेहावी अणुग्धायणखेयन्ने, जे यबन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के । वृ. अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम्, अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति, उक्तंच॥१॥ "तत्थेव य निट्ठवणंबंधण निच्छुभण कडगमद्दोवा। निविसयं वनरिंदो करेज्ज संधंपिसो कुद्धो" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy