SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशकः६ १५१ वृ. वसु-द्रव्यमेतच्चभव्येऽर्थेव्युत्पादितं 'द्रव्यंचभव्य' इत्यनेन, भव्यश्च-मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्रव्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनिःमोक्षगमनायोग्यः, स च कुतो भवति ? - अनाज्ञया तीर्थंकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते-उद्देशकादेरारभ्य सर्वं यथासम्भवमायोज्यं, तथाहि-मिथ्यात्वमोहितेलोकेसंबोद्धंदुष्करंव्रतेष्वात्मानमध्यारोपयितुंरत्यरतीनिग्रहीतुं शब्दादिविषयेष्विष्टानिष्टेषुमध्यस्थतांभावयितुंप्रान्तरूक्षाणि भोक्तुम्, एवं यथोद्दिष्टयामौनीन्द्राज्ञया असिधारकल्पयादुष्करंसञ्चरितुं,तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने चकर्मोदयोऽनाद्यतीतकालसुखभावनाच कारणं, जीवोहिस्वभावतोदुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह ___ 'तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितोहि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायतिवक्तुं, ज्ञानसमन्वितोवाचारित्ररिक्तः पूजासत्कारभयात्शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि-प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति । यस्तु कषायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च-'एस' इत्यादि, 'एष' इति सुवसुमुनिानाधरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् 'प्रशंसितः' तद्विद्मिः श्लाधित इति । किं च'अच्चेई' त्यादि, स एवं भगवदाज्ञानुवर्तको वीरोऽत्येति-अतिक्रामति, कं?-'लोकसंयोग' लोकेनासंयतलोकेन संयोगः-सम्बन्धः ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्यं वा अष्टप्रकारकर्मतेन सार्द्ध संयोगमत्येति-अतिलङ्घयतीत्युक्तंभवति ।यदिनामैवंततः किमित्याह'एस' इत्यादि, योऽयंलोकसंयोगातिक्रमः ‘एषन्यायः एष सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानंच मोक्षंनयतीति छान्दसत्वात्कर्त्तरिधञ्नायः, योहि त्यक्तलोकसंयोगएषएवपरात्मनोमोक्षस्यन्यायःप्रोच्यते-मोक्षप्रापकोऽभिधीयतेसदुपदेशात्।स्यादेतत्किंभूतोऽसावुपदेश इत्यत आह मू. (१०५) जंदुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरंति, इह कम्मं परिन्नाय सव्वसो जे अणन्नदंसी से अणन्नारामे जे अणन्नारामे से अणनदंसी, जहा पुन्नस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ॥ वृ.यद्दःखंदुःखकारणंवा कर्म लोकसंयोगात्मकंवा 'प्रवेदितं' तीर्थकृभिरावेदितं 'इह' अस्मिन् संसारे 'मानवानां' जन्तूनां, ततः किं ? - तस्य 'दुःखस्य' असातलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणोजितनिद्राजितेन्द्रियादेशकालादिक्रमज्ञास्तेएवंभूताः परिज्ञाम्उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च। किंच- 'इति कम्मं इत्यादि, इतिः पूर्वप्रकान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञानं कुशला उदाहरन्ति तद्दुःखं कर्मभूतं तत्कष्टिप्रकारंपरिज्ञाय तदाश्रवद्वाराणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy