________________
१२
आचाराङ्ग सूत्रम् 9/19/-1-[नि.१५] ॥४॥ सेढीसुनाणदसणपज्जाया तेण तप्पमाणेसा
इह पुण चरित्तमेत्तोवओगियो तेण ते थोवा वृ.अयमासामर्थोलेशतः-नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानितावद्भवन्ति, तेषां यज्जधन्यं तदविभागपलिच्छेदेन बुध्धा खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनमःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तभागेव्रतानिवर्तेरनिति।स्यान्मतिः,अन्ये केवलगम्या इति, इदमक्तं भवति-केवलगम्याप्रज्ञापनीय- पय्यार्याणामपि तत्र प्रक्षेपाबहुत्वम्, एवमपि ज्ञानेज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा ति । अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपितासा सर्वाचारित्रपय्यार्येनिदर्शन-पर्यायसहितैः परिपूर्णा तप्रमाणासर्वकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगि-त्वात्पर्यायानन्तभागवृत्तित्वमित्यदोषः।
-इदानींसारद्वारं, कः कस्य सार इत्याहनि. [१६] अंगाणं किं सारो? आयारो तस्स हवइ किं सारो? ।
___ अनुओगत्थो सारो तस्सवियपरूवणा सारो वृ. स्पष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति। अन्यच्च नि. [१७] सारोपरूवणाए चरण तस्सविय होइ निव्वाणं ।
निव्वाणस्स उ सारो अव्वाबाहं जिणा बिंति वृ. स्पष्टैव।इदानीं श्रुतस्कन्धपदयो मादिनिक्षेपादिकंपूर्ववद्विधेयं, भावेनचेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याहनि. [१८] बंभम्मी य चउक्कं ठवणाए होइ बंभणुप्पत्ती।
__सत्तण्हं वण्णाणं नवण्ह वण्णंतराणंच वृ. तत्रब्रह्मनामादिचतुर्द्धा, तत्रनामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापनाप्रतिविशिष्टयज्ञोपवीताद्याकृतिमृलेप्यादौद्रव्ये,अथवा स्थापनायांव्याख्यायमानायं ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेनचसप्तानां वर्णानां नवानांचवर्णान्तराणामुत्पत्तिभणनीयेति। यथाप्रतिज्ञातमाहनि. [१९] एका मणुस्सजाई रज्जुप्पत्तीइ दो कया उसभे।
तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि वृ. यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्तौभगवन्तमेवाश्रित्य ये स्थितास्तेक्षत्रियाः,शेषाश्चशोचनाद्रोदनाच्चशूद्राः,पुनरग्न्युत्पत्तावयस्कारदिशिल्पवाणिज्यवृत्तया वेशनाद्वैश्याः,भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनाच्छ्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धायश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते॥
-साम्प्रतं वर्णवर्णान्तरनिष्परनिष्पन्नं संख्यानमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org