SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ आचाराङ्ग सूत्रम् १/-/२/५/९५ तहाबाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनंमोचयति एवंपुत्रकलत्रादिबाह्यमपि, यथा वा बाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा-कथमसौ मोचयतीति चेत्तत्त्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह-'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः- मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तंच॥१॥ “यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत्" इति, यथा वा बहिरसारता तथाऽन्तरपीति । किंच-'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् ‘देहान्तराणि' देहस्यावस्थाविशेषान्, इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति' यथावस्थितानि परिच्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति-'पूढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां यौगपद्येनापिन वन्तिनवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनिचेति।यद्येतानि ततः किं? - 'पंडिए पडिलेहाए' एतान्येवंभूतानि गलच्छ्रोतोव्रणरोमकूपानि ‘पण्डितः' अवगततत्त्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तंच॥१॥ “मंसहिरुहिरण्हारुवणद्धकलमलयमेयमज्जासु । पुण्णंमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥२॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णंमि। देहे हुज्जा किंरागकारणं असुइहेउम्मि?" इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि वन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह मू. (९६) से मइमं परिन्नाय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणोतं करेइ लोहं वेरं वड्डेइ अप्पणो, जमिण परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमरायमहासठ्ठी अट्टमेयं तु पेहाए अपरिण्णाए कंदइ वृ. 'स' पूर्वोक्तो यतिमतिमान्-श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपंच द्विविधयाऽपिपरिज्ञया परिज्ञाय किं कुर्यादित्याह-'मा यहु' इत्यादि, 'मा' प्रतिषेधेचः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला-अत्रुट्यन्मुखश्लेष्मसन्ततिःतां प्रत्यशितुंशीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान्, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किं च- ‘मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्येप्रतिकूलतांमा विदध्याः, तत्राप्रमादवताभाव्यं, प्रमादवांश्चेहैव शान्तिं न लभते, यत आह-'कासंकासे' इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यामृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy