SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक:५ १४३ इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिमनैकहेतुर्दुर्गतिद्वारपरिघे धर्म्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च“भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् " -तथा जूरतीत्यादीन्यपि स्वबुद्धया योजनीयानि, उक्तं च 119 11 ॥ १ ॥ सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्म्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ इत्यादि ॥ कः पुनरेवं न शोचत इत्याह 119 11 मू. (९५) आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ उड्ढं भागं जाणइ तिरियं भागं जाणइ, गढिए लोए अनुपरियट्टमाणे, संधिं विइत्ता इह मच्चिएहिं, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहंतराणि पासइ पुढोवि संवताइं पंडिए पडिलेहाए । वृ.आयतं-दीर्घमैहिकामुष्मिकापायदर्शिचक्षुः- ज्ञानं यस्य स आयतचक्षुः, कः पुनरित्येवंभूतो भवति ? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किं च- 'लोगविपस्सी' लोकं विषयानुषङ्गावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं दुष्टं शीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊर्द्धाधस्तिर्यगभागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एतद्दर्शयति- 'लोगस्स' इत्यादि, लोकस्य धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति येन कर्म्मणा तत्रोत्पद्यन्तेऽ सुमन्तः या क् तत्र सुखदुःखविपाको भवति तं जानाति, एवमूर्द्धतिर्यग्भागयोरपि वाच्यं, यदिवा लोकविदर्शीतिकामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह-'गढिए' इत्यादि, अयं हि लोको 'गृद्धः' अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैवानुपरिवर्त्तमानो भूयो भूयस्तदेवाचरंस्तज्जनितेन वा कर्म्मणा संसारचक्रे ऽनुपरिवर्तमानः पर्यटन्नायतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्त्तनाय न प्रभवति ?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः । अपिच-'संधि' इत्यादि, इह 'मर्त्येषु' मनुजेषु यो ज्ञानादिको भावसन्धिः, स च मर्त्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति- 'एस' इत्यादि, 'एषः ' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शीभावसन्धेर्वेत्ता परित्यक्तविषयतर्षो वीरः कम्र्म्मविदाराणत् 'प्रशंसितः' स्तुतः विदिततत्त्व - रति । स एवंभूतः किमपरं करोतीति चेदित्याह- 'जे बद्धे' इत्यादि, यो बद्वान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धविमोक्षं वाचोयुक्त्याऽऽचष्टे 'जहा अंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy