________________
१४२
आचाराङ्ग सूत्रम् १/-/२/५/९३
॥ १ ॥ “ लज्जां गुणौधजननीं जननीमिवार्यामत्यन्तशुद्धहदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् " इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अश्रावीति । परिग्रहादात्मानमपसर्पयेदित्युक्तं तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदोऽसुकरो, यत आह
मू. (९४) कामा दुरतिकमा, जीवियं दुष्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पड़
वृ. कामाद्विविधाः - इच्छाकामा मदनकामाश्च तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्मवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारण, ततसद्मावे च न कामोच्छेद इत्यतो दुःखेनातिक्रमः - अतिलङ्घनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति न तत्र प्रमादवता भाव्यं । न केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम् - आयुष्कं तत् क्षीणं सत् 'दुष्प्रतिबृंहणीयं' दुरभावार्थे, नैव वृद्धिं नीयते इतियावत्, अथवा जीवितं संयमजीवितं तदुष्प्रतिबृंहणीयं, कामानुषक्तजनान्तर्वर्त्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च
119 11
"आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो । बाहाहिं चेव गंभीरो, तरिअव्वो महोअही वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयव्वा सुदुक्करं "
इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह'कामकामी' इत्यादि, कामान् कामयितुम् अभिलषितुं शीलमस्येति कामकामी 'खलुः' वाक्यालङ्कारे 'अयम्' इत्यध्यक्षः 'पुरुषः' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःखविशेषाननुभवतीति दर्शयति- 'से सोयई' त्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च
119 11
॥२॥
“गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तमुप्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम् ? इत्यादि शोचते, तथा 'जूरइ' त्ति हृदयेन खिद्यते, तद्यथा
""
॥ १ ॥ “प्रथमतरमथेदं चिन्तनीयं तवासीद्बहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय ! निराश ! क्लिबसंतप्यसे किं ?, न हि जडगततोये सेतुबन्धाः क्रियन्ते" इत्येवमादि, तथा 'तिप्पइ 'त्ति 'तिपृ तेपृ प्रक्षरणार्थौ' तेपते क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीतियावत्, तथा शारीरमानसैर्दुःखैः पीड्यते, तथा परिः समन्ताद्बहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रकलत्रादौ कोपात् क्वचिद्गते स मया नानुवर्त्तित
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International