________________
१४१
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:५ ॥१॥ “लम्यते लभ्यते साधु, साधुरेव न लभ्यते।
अलब्धेतपसो बुद्धिलब्धेतुप्राणधारणम्" इत्यादि, तदेवं पिण्डपात्रवस्त्राणामेषणाःप्रतिपादिताः,साम्प्रतंसन्निधिप्रतिषेधं कुर्वनाह'बहुपी'त्यादि, बहुंपि' बह्वपिलब्ध्वा न निहेत्तिन स्थापयेत् नसन्निधिं कुर्यात्, स्तोकंतावन्न सनिधीयतएव, बह्वपिनसन्निदध्यादित्यपिशब्दार्थः,नकेवलमाहारसन्निधिंनकुर्याद्, अपरमपि वस्त्रपात्रादिकंसंयमोपकरणातिरिक्तनविभृयादिति, आह-'परि' इत्यादि, परिगृह्यतइतिपरिग्रहोधर्मोपकरणातिरिक्तमुपकरणंतस्मादात्मानमपष्वष्केद्-अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया परिग्रहो भवति, 'मूच्छा परिग्रहः' इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयनुपकरणे तुरगवत् मूर्छा न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि-आत्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषो नै दिष्ठौ ताभ्यांचकर्मबन्धः, ततः कथं न परिग्रहो धर्मोपकरणम् ?, उक्तंच॥१॥ममाहमिति चैषयावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः यशःसुखपिपासितैरयमसावनर्थोत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ।
नैष दोषः, न हि धर्मोपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः"अविअप्पणोऽविदेहमि, नायरंतिममाइउं",यदिहपरिगृहीतंकर्मबन्धायोपकल्पतेसपरिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एवन भवतीति । आह च
मू. (९३) अन्नहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिंपिज्जासि-त्तिबेमि॥
वृणमिति वाक्यालङ्कारे, अन्यथे'त्यन्येन प्रकारेणपश्यकः सन्परिग्रहं परिहरेत्, यथा हिअविदितपरमार्था गृहस्थाःसुखसाधनायपरिग्रहंपश्यन्तिनतथासाधुः, तथाहिअयमस्याशयःआचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेष मूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तंच॥१॥ “साध्यं यथा कथञ्चित् स्वल्पं कार्यं महच्च न तथेति।
प्लवनमृते न हि शक्यं पारं गन्तुंसमुद्रस्य" अत्रचाहताभार्बोटिकैः सहमहान्विवादोऽस्तीत्यतो विवक्षितमर्थतीर्थकराभिप्रायेणापि सिसाधयिषुराह-एसमग्गे इत्यादि, धर्मोपकरणंनपरिग्रहायेत्येषः-अनन्तरोक्तोमार्ग:आराद्याताः सर्वहयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः' कथितो, नतुयथा बोटिकैः पुण्डिका तट्टिका लम्बणिकाअश्वावालधिवालादिस्वरुचिविरचितोमार्गइति,नवायथा मौद्गलिस्वातिपुत्राभ्यां शौद्धोदनिध्वजीकृत्य प्रकाशितः,इत्यनया दिशाअन्येऽपिपरिहार्याइति।इह तुस्वशास्त्रगौरवमुत्पादयितुमार्येः प्रवेदित इत्युक्तम्, अस्मिश्चार्यप्रवेदिते मार्गे प्रयलवता भाव्यमिति, आह च'जहेत्थ' इत्यादि, लब्ध्वा कर्मभूमि मोक्षपादपबीजभूतांचबोधिं सर्वसंवरचारित्रच प्राप्य तथा विधेयं तथा 'कुशलो' विदितवेद्यः 'अत्र' अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति। एवंचोपलिम्पनं भवति यदि यथोक्तानुष्ठान विधायित्वंन भवति, सतांचायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासंयावद्विधेयमिति, उक्तंच
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only